________________
॥ श्री मानतुङ्गसूरिविरचितम् ।।
अत्र ऋचि परलोकगत्या भूतेभ्यो जीवः पृथगुक्तः । “शृगालो वै स जायेत यः सपुरीषो दह्यते" इति कृतकर्मभोक्तृत्वाभाव इति।
"यद् यावद् यादृशं येन, कृतं कर्म शुभाशुभम् । तत् तावत् तादृशं तस्य, फलमीशः प्रयच्छति ॥१॥" - अनु० इति कर्मफलभुक्तिः । क्वापि एक एवायमात्माऽन्यः सर्वो मिथ्या प्रपञ्चः । उक्तं च -
" एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकथा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥" - अनु० देहे देहे जीवपार्थक्येऽपि एकजीवत्वं उन्मत्तवाक्यवद् यदृच्छाप्रलापः। “न हिंस्यात् सर्वभूतानि'' इति कृपास्थापना। "पुत्रकामः पशुमालभेत अजैर्यष्टव्यम्' इति दयायां व्यभिचारः। अतो हरिहरादिज्ञानमज्ञानं पूर्वापरविसंवादि, भवज्ज्ञानं (तु) सहजमेकं सकलमव्यभिचारि इति स्थितम्। उपमामाह - स्फुरन्मणिषु-भास्वद्वज्र-वैडूर्य-पुष्परागेन्द्रनीलादिरत्नेषु तेजः- प्रभा यद्वन्महत्त्वं - गौरवं याति-प्राप्नोति तु-पुनः एवं-तद्वत् किरणाकुलेऽपि - चाकचिक्ययुतेऽपि काचशकले - क्षारखण्डे तेजो न महत्त्वं गच्छतीत्यर्थः। अत्रोपमाया वचनव्यभिचारालङ्कारः । अथ (त्र) “ तेजो यथा व्रजति जात्यमणौ महत्त्वं, नैवं तु काचशकलेषु रुचाकुलेषु'' इति वा पाठः । वचनभेदो न भवति । इति वृत्तार्थः ॥२०॥
अथ मन्त्र सूरिमन्त्र एव षट्सु वृत्तेषु वक्ष्यमाणेष्विति ।। प्रभावे कथा यथा - त्रिलोचनाङ्गजोत्पत्त्या - दिकं विजयसूरिभिः । प्रोक्तं राजपुरः पृष्टै-र्यनोचे ब्राह्मणादिभिः ॥१॥ - अनु० श्री नागपुरे नगरे श्रीमहीपतिर्नरेन्द्रः । राजपूज्यः पुरोधाः सोमदेवः । तत्र पुरे श्रीविजयसेनसूरयो विहारयोगेनागताः । ते निशि भक्तामरस्तव विंशवृत्तस्मरणात् तुष्ट्या साक्षाद्भूतया चक्रया सर्वप्रश्नविदः कृताः।।
का १४३ |
नागता