________________
॥श्री भक्तामरस्तोत्रम् ॥
__ अन्यदा महीपतेर्देवी प्रसूतिसमयोन्मुखी बभूव । ततो राजा पुरोधः प्रभृतिद्विजान् श्वः परश्वो वा मद्गृहे किं भवितेति ज्ञानमपृच्छत्। ते सम्यगविदन्तो मौनमाश्रिताः । ततः श्रीविजयसेनसूरय आकार्य वन्दित्वा पृष्टाः । सूरयो राजद्विजसमाजसमक्षमवोचन्महाराज ! श्रृणु-भवतां पट्टदेवी नेत्रत्रययुतं सुतं प्रसविष्यति कल्ये । द्वादशेऽह्नि पट्टहस्ती मरिष्यति । पुत्रस्य विकृतविलोचनं विले (ल) क्ष्यते। अतः तृतीयाक्षिभवोत्पातो यास्यति । शुभं भविष्यति इत्युदित्वोपाश्रयं ययुः । सोल्लुण्ठाः सूत्रकण्ठाः सूरिमुपहसन्तो राज्ञा निषिद्धाः। द्वितीये दिने पुत्रजन्मक्रमात् सर्वमभूत् । त्रयोदशदिने गुरुनाहूय सिंहासनमारोपयत् श्रीमहीपतिः । द्विजा मषीमलिनास्याः पातालं प्रविविक्षव इवाधोमुखाः सूरीन् प्रणेमुः । गुरवोऽवदन्नाशीर्वादम् - "आधारो यस्त्रिलोक्या जलधिजलधरार्केन्दवो यन्नियोज्या भुज्यन्ते यत्प्रसादादसुरसुरनराधीश्वरैः सम्पदस्ताः । आदेश्या यस्य चिन्तामणिसुरसुरभीकल्पवृक्षादयस्ते श्रीमान् जैनेन्द्रधर्मः किसलयतु स वः शाश्वती शर्मलक्ष्मीम् ।।१॥"- स्रम् ०
इति । नित्यसुखदं जैनधर्मं श्रुत्वा नरेन्द्रः श्रावकोऽभूत् । जैनप्रासादान् महीपतिरचीकरत्, महती प्रभावना प्रसृतेति । अन्यैरपि पेठे सर्वशुभकृतिनवः स्तवः ।।
॥ इति द्वादशी कथा ।।१२।।
* * * अथ निन्दास्तुतिमिश्रमाह - मन्ये वरमित्यादि
हे सर्वोत्कृष्ट ! देवोत्तम ! प्रभावनाथ ! हरिहरादय एव दृष्टा - विलोकिता वरं-प्रधानमित्यहं मन्ये । येषु सुरेषु दृष्टेषु हृदयं-चित्तं त्वयिभवद्विषये तोषं - प्रमोदमेति - आयाति । यतस्तैर्हि तव मुद्राऽपि नाभ्यस्ता, ज्ञानं दूरे । उक्तं च -
ना १४४ |