________________
॥ श्री मानतुङ्गसूरिविरचितम् ॥
"वपुश्च पर्यवैशयं श्लथं च दृशौ च नासानियते स्थिरे च । न शिक्षितेयं परतीर्थनाथै - र्जिनेन्द्र ! मुद्राऽपि तवान्यदास्ताम् ॥१॥"
- उपजातिः ___- ( अयोगव्यवच्छेदद्वात्रिंशिकायां श्लो० २०)
अतोऽपरसुरदर्शनादेव त्वयि भक्तिस्तैलाशनादाज्ये यथा प्राज्यादर इति। अथ भवता वीक्षितेन-दृष्टेन किं कार्यं येनार्हद्वीक्षणलक्षणेन हेतुनाऽन्यः-त्वदपरः कश्चिद् देवो भवान्तरेऽपि-अन्यजन्मन्यपि भुवि-लोके मनो न हरति-मानसं न गृह्णाति । यतः सर्वगुणो भवांस्तथाविधभव्यानां चित्तहरणं कुरुते । अन्ये सुरा रागद्वेषविसंस्थुलाङ्गत्वात् ज्ञानविकलत्वाच्च न मनोहरणं प्रति कारणम् । उक्तं च“ सर्वे सर्वात्मनाऽन्येषु, दोषास्त्वयि पुनर्गुणाः ।
स्तुतिस्तवेयं चेन्मिथ्या, तत्प्रमाणं सभासदः ॥१॥" - अनु० अन्यभवे चित्ततोषः श्रेयांसादेरिव । तद् यथा -
"साधिकवर्ष चतसृषु, दिक्षु बहल्यादिमण्डलानि विभुः। व्यहरन्मुक्ताहारो मुनिभिक्षामूर्खमनुजवशात् ॥१॥ अवनिं पावं पावं, निरशनपानो जिनेश्वरो वृषभः । निजचरणक्रमणेना-शनाय गजपुरमगादग्लानः ॥२॥ श्रीबाहुबलितनूजः, सोमयशाः सद्यशा नृपस्तत्र । रूपनिधिवृषभांसः, श्रेयांसस्तत्कुमारवरः ॥३॥ स्वप्ने च निशाशेषे, कज्जलकालः सुमेरुगिरिराजः । मयका सुधाभिषिक्तः, स्वरुचिं प्रापेति सोऽपश्यत् ॥४॥ परितो वैरिक्रान्तो, वीरः श्रेयांसविहितसाहाय्यः । रणभुवि विजयी जातः, स्वप्नं सोमप्रभोऽपश्यत् ॥५॥ रविमण्डलतः पतितं, करजालं गलिततेजसस्तस्य । श्रेयांसेन तु घटितं, स्वप्नं श्रेष्ठी ददर्शति ॥६॥ प्रातः पर्षदि मिलिताः, स्वप्नार्थं किमपि भाव्यजानन्तः । ऊचे नृपतिः कश्चित्, श्रेयांसस्योदयो नूनम् ॥७॥
न
१४५
जा