________________
।। श्री भक्तामरस्तोत्रम् ॥
निजनिजसौधं जग्मुः, श्रेयांसश्रेष्ठिमन्त्रिसामन्ताः । युवराजो जनतानां, कलकलमश्रृणोद् गवाक्षथः ||८|| आसन्ननरमपृच्छत्, कोलाहलकारणं ततो युवराट् । सोऽचीकथच्च मत्वा, निःशेषं वृषभवृत्तान्तम् ॥९॥ रजतस्वर्णाभरण - प्रवालमुक्ताफलाश्वयानादि । प्रपितामहस्तवायं, कौशलिको नैव गृहणाति ॥ १० ॥ तेनायं नगरजनः, कलकलशब्दं करोति भक्तिपरः । स्वामिन्नस्मिन् भक्ते, कुरु प्रसादं वदन्नेवम् ॥११॥ तच्छ्रुत्वा श्रेयांसो, निरुपानत्कस्त्वरान्वितोऽभ्यगमत् । तां जिनमूर्तिं दृष्ट्वा, जातस्मृतिमाप गतपापः ॥ १२ ॥ पूर्वविदेहे पुण्डरि - किण्यां पुरि वज्रसेनजिनसूनुः । चक्र्यजनि वज्रनाभः, सुयशास्तत्सारथिः प्रथितः ॥ १३ ॥ सह बाहुसुबाहुभ्यां, पीठमहापीठसहजसुयशोभि: । चक्रधरः पूर्वधरो, व्रती समर्ज्याथ चार्हन्त्यम् ॥१४॥ सर्वार्थदिवो भरते, गतसुकृते नाभिभूरभूदर्हन् । सूयशा यतिर्गृहीता - नुत्तरवासो भवं सोऽहम् ।। १५ ।। तत्रेयं तीर्थकरस्य, वज्रसेनस्य वीक्षिता मुद्रा । भूपीठेऽनभ्यसमा, ऋजुजडजीवैरविज्ञेया ॥१६॥ कल्प्यमकल्प्यं सैषण-मनेषणीयं न विदन्ते यदमी । मुनिपतये तत् शुद्धं, कल्याणीभक्तयो ददति ॥ १७ ॥ अत्रान्तरे च कश्चिन्- नव्येक्षुरसेन सम्भृतान् कुम्भान् । युवराजपुरोऽढौकय- दिक्षुवंशा यद् विभोर्वंश्याः ॥ १८ ॥ भगवन् ! प्रसारय करौ, निस्तारय मां गृहाण योग्यममुम् । इत्युक्तेऽञ्जलिमृषभो -ऽकृत सोऽपि ददौ घटेक्षुरसम् ॥१९॥ अच्छिद्रपाणिरर्हन्, नापतदवनौ तथेक्षुरसबिन्दुः ।
याति शिखा यदि शशिनं, तीर्थकृतोऽतिशयतो न पतेत् ॥ २० ॥ दिवि दुन्दुभयो नेदु-र्जुघुषुरहो दानमर्जुनं ववृषुः । रत्नकुसुमादि मुमुचु- र्जहषुर्ननृतुश्च देवगणाः ॥ २१ ॥
१४६