________________
॥श्री मानतुङ्गसूरिविरचितम् ।।
-
-
अन्तर्हिताशनविधौ, भगवति गतवति कृतं पदस्थाने । तेनादिकृते मण्डल-मन्यैश्च रवेः क्रमात् प्रथितम् ॥२२॥ स्वप्नत्रयं पुरोदित-मभूच्च सत्यं जिनेन्द्रपारणकात् । सोमप्रभोऽथ हृष्टः, स्वसुतं दृष्ट्वा सुराभिनुतम् ।।२३॥ आगतकच्छादीनां, मिलितजनस्याग्रतश्च जिनवृत्तम् । आहारविधिमचीकथ-दात्मचरित्रं च युवराजः ॥२४॥ ईशाने ललिताङ्गः, स्वयंप्रभा प्राणवल्लभा प्रथमम् । राजाऽथ वज्रजङ्घः, श्रीमत्या कान्तया श्रीमान् ॥२५॥ अथ युगलिनौ च देवौ, जीवानन्दश्च केशवो मित्रम् । अच्युतसुरौ च राजेन्द्र-वज्रनाभश्च सूतश्च ॥२६॥ सर्वार्थसिद्धि (द्ध) देवौ, मरुदेवीनाभिनन्दनो विदितः । प्रथमजिनोऽजनि चाहं, श्रेयांसः सुयशसो जीवः ॥२७॥ अष्टभवप्रतिबद्ध-स्नेहोऽहं नवमके ततो नाथम् । दृष्ट्वा जातिस्मृत्या, ज्ञातेयं तीर्थकृन्मुद्रा ॥२८॥ प्रासुकजलसिद्धानं, निर्बीजफलं सशुष्कमूलदलम् । योग्यं देयमृषिभ्य-स्तेऽगुः स्वाश्रयमिति श्रुत्वा ॥२९॥ पात्रं श्रीऋषभजिनः श्रेयांसः श्रेयसाऽन्वितो दाता । वित्तं शुद्धक्षुरसो, न विद्यते भूतलेऽन्यत्र ॥३०॥ श्रमणोपासकभावे, श्रेयांसः प्रथम एव भुवि विदितः । मुक्तः क्रमेण राज्यं, प्रपाल्य पूर्वाणि भूयांसि ॥३॥ इति येऽन्यभवालोकात्, पुनरपि ददृशुर्जिनं गुणावासम् । तोषं भेजुस्ते पर-देवैर्दष्टैरपि प्रथमम् ॥३२॥
॥ इति वृत्तगर्भार्थः ।।२१।। अथ महिमकथा -
श्रीजीवदेवसूरीन्द्रा, विहता देवपत्तने ।
पौराणां दर्शिता यैस्तु, शिवब्रह्माच्युतादयः ॥१॥ ___पुरा श्रीवायडमहास्थाने परकायप्रवेशविद्याविदः श्रीजीवदेवसूरयः
ना १४७ |