________________
॥ श्री भक्तामरस्तोत्रम् ॥
I
स्तवैकविंशं वृत्तं साम्नायं क्षपायां जपन्तोऽप्रतिचक्रया सर्वदेवप्रकटनशक्तयः कृताः । ते श्रीगुर्जरात्रतः (?) सुराष्ट्रासु देवपत्तनं जग्मिवांसः (ग्रं०७००) । तत्र श्रीसोमनाथमहिमा महीयान् । तद्भक्तो जनो यात्रिका अहमहमिकया नमन्ति शिवम् । श्रावकाः कङ्कटुकप्रायाः केचन । ते गुरुसंमुखं गताः । प्रभुभिर्धर्मनिर्वाहप्रश्नः कृतः । ते ऊचुः - अत्र मिथ्यादृग्मतस्यैकच्छत्रता, कथं धर्मनिर्वाह : ? । श्रीजीवदेवसूरयः श्रावकैः साकं सोमनाथप्रासादमासदन् । हृष्टास्तद्भक्ताः । अहो श्वेताम्बरा अपि शिवनमनायाजग्मुः । सूरिभिश्चक्रां चेतसि कृत्वा सोमेश ! आगच्छेत्युक्तम् । प्रक़टः शिवोऽचालीत्। अग्रे ब्रह्मविष्णू प्रासादाच्चलितौ । सूर्य-गणेशस्कन्दादयश्चलिताः। सकलप्रकटितसुरैर्विस्मितैः पौरैः शिवार्चकैश्च सह चन्द्रप्रभप्रासादे जिनेशो नतः, सोमेशादष्टमजिनार्चनाय करो याचितः । तेनाङ्गीकृतः । विसृष्टाः स्वस्थानगमनाय हरादयोऽन्तर्दधुः । आचार्या उपाश्रयं जग्मुः । महती शासनोन्नतिर्जाता । लिङ्गभरटकाः चन्द्रप्रभस्य करदीभूताः जिनं महादेवममन्यन्त । दृष्टप्रत्ययः को मुह्यति ? अमूदृशो - ऽल्पीयांसो भुवि । उक्तं च
I
-
""
परोलक्षेषु देवेषु ख्यातिरेकस्य कस्यचित् ।
,
मेष्वेकैव सा जम्बू- जम्बूद्वीपो यदाख्यया ||१||" - अनु० इति । पूजा पुष्पसहस्रदशकं मासे पञ्चसेरमिता श्रीखण्डका नित्यं तैलसेरत्रयं नैवेद्ये माणकद्वयं केसरकुङ्कुमपलद्वयं कर्पूरस्य माषकमेकं कस्तूरिकायाश्च करं दत्ते सोमेशोऽष्टमजिनस्येति ।
।। इति त्रयोदशी कथा ।।१३।।
* * *
किञ्च - स्त्रीणामित्यादि
हे चतुर्दशस्वप्नसूचितचतुर्दशभुवनाधिपत्य ! स्त्रीणां नारीणां शतानि
१४८