________________
॥श्री मानतुङ्गसूरिविरचितम् ॥
बहुवचनत्वात् कोटीकोट्यः शतशः - कोटिकोटिसंख्यान पुत्रान् जनयन्तिप्रसुवते। तासु मध्येऽन्या-अपरा जननी-माता त्वदुपम-भवत्समं सुतं - नन्दनं न प्रसूता - नाजीजनत्। त्वां पुत्रं मरुदेव्येव प्रासूत । अत्रोपमा-सर्वा दिशः - अष्टौ काष्ठाः भानि-नक्षत्राणि तारकाणि दधति- धारयन्ति, (परन्तु) प्राच्येव - पूर्वैव दिक् स्फुरदंशुजालं- चञ्चत्करकलापं सहस्ररश्मि - सूर्यं जनयति-प्रसूते । यथा ऐन्द्री दिक् सूर्योदये हेतुः, तथा तीर्थकृज्जन्मनि मरुदेव्यादय एव हेतुः । इति वृत्तार्थः ॥२२॥ प्रभावे कथा -
श्रीआर्यखपुटाचार्यै - र्यक्षो वृद्धकराभिधः ।
स्कन्ध-रुद्र • गणेशाद्यैः, सहितो दर्शितो नतः ॥१॥ - अनु० श्री गुडशस्त्र' पत्तने भुवनमुनिना वृद्धकरनामा बौद्धाचार्यो वादे जितः। स पराभवान् मृत्वा यक्षीभूय सङ्घमुपद्रोतुं लग्नः । सङ्घन स्तवद्वाविंशवृत्ताम्नायजपनप्राप्तदुष्टयक्षदलनोपायाः सोत्साहा वृद्धवयसो विद्यासिद्धाः श्रीआर्यखपुटाचार्या विज्ञप्य “गुडशस्त्र' पत्तनमानीताः । प्रभवो यक्षायतनं गत्वा यक्षकर्णयोर्जीर्णपादुके निवेश्योरसि स्वांही कृत्वा वस्त्रेणाङ्गमावृत्य सुषुपुः । यक्षार्चकः समेत्योवाच- रे दुर्विनीत ! शीघ्रमुत्तिष्ठ, मरिष्यसेऽन्यथा। ते कपटनिद्रया स्थिताः। राजादयो यक्ष नन्तुं प्रातरागताः । राजाज्ञया राजपुरुषास्तं हन्तुं लग्नाः। कशाघाता अन्तःपुरे लेगुः । पूत्कारका नरा आयाताः। एतस्य सिद्धस्य प्रभावोऽसौ इति मत्वा घाता निर्वर्तिता राज्ञा । स सूरिपदौ गृहीत्वा स्थितः। उत्थिता गुरवः। यक्षः स्वस्थानाद् गुरुचरणमूलमागत्यापतत्। गुरुभिर्निर्भत्स्य सङ्घस्य रक्षकीकृतः। प्रभवो यक्षयुताः पुरं प्रति चेलुः। अन्येऽपि शिव-विनायकाद्या यक्षगृहाच्चेलुः। द्वे महद्दषन्मये कुण्डिके चालिते। सर्वे पुरद्वारात् स्वस्थानं प्रति विसृष्टाः । प्रभून् नत्वा गतवन्तश्च । कुण्डिके तत्र स्थापिते
ना १४९ /