________________
॥ श्री भक्तामरस्तोत्रम् ।।
कर्मतापन्नाम्? 'मुक्ताफलद्युति' मौक्तिककान्तिम्। केषु? 'नलिनीदलेषु' कमलिनीपत्रेषु। आधारप्रभावादेतादृशं वस्त्वपि परमशोभां प्राप्नोति। यदुक्तं'संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते
मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते। स्वातौ सागरशुक्तिसम्पुटगतं तज्जायते मौक्तिकं
प्रायेणाधममध्यमौत्तमगुणः संवासतो जायते ॥१॥' -- शार्दुल० अथ समासा :- मननं पूर्वं मत्वा 'मन ज्ञाने' धातुः क्त्वा प्रत्ययः 'लोपस्त्वनुदात्ततनाम्' (सा. सू. ८८६) इति नलोपः, 'ह्रस्वस्य पिति कृति तुक्' (सा. सू. १२४६)। संस्तूयते अनेनेति संस्तवनम्। तनुर्धीर्यस्य स तनुधीस्तेन तनुधिया। नलिन्या दलानि नलिनीदलानि तेषु। आधारे सप्तमी। बहुवचनं तु अत्यन्तशोभासम्भारव्यञ्जकम्। मुक्ता एव फलं मुक्ताफलं, तस्य द्युतिः मुक्ताफलद्युतिस्ताम्। उदकस्य बिन्दुः उदबिन्दुः, 'सहादेः सादिः' (सा. सू. ५०६) इति तेन उद इत्यादेशः। 'बिन्दौ पृषत्पृषतविग्रुषः (अभि. का. ४, श्लो. १५५) इति हेमसूरयः।। इति अष्टमकाव्यार्थः ।।८।।
અર્થ : એ પ્રમાણે માનીને હે નાથ ! અલ્પબુદ્ધિવાળા મારા વડે આ આપની સ્તવના શરૂ કરાય છે. આપના પ્રભાવથી સજ્જનોના ચિત્તને આકર્ષી લેશે. કેમકે પાણીનું બિંદુ કમળના પાંદડા પર મોતી જેવી શોભાને પામે છે.
अथ संस्तवनस्य अतिशयालुमाहात्म्यमाह - आस्तां तव स्तवनमस्तसमस्तदोषं
त्वत्संकथाऽपि जगतां दुरितानि हन्ति । दूरे सहस्रकिरणः कुरुते प्रभैव
पद्माकरेषु जलजानि विकासभाञ्जि ॥९॥ दण्डान्वयः- अस्तसमस्तदोषं तव स्तवनं दूरे आस्ताम् त्वत्संकथा
ना १५ का