________________
॥श्री भक्तामरस्तोत्रम् ॥
तथैव तिष्ठतोऽद्यापि न कोऽपि चालयितुं क्षमः । तादृशां गुणान् कः संख्यातुं वेत्ति? । उक्तं च - " गुणान् गुणवतां वेत्तुं, विरलाः प्रभविष्णवः ।
वेत्ति रत्नपरीक्षायां, लवमेकं न वल्लवः ॥१॥" - अनु० यक्षमहिमा चास्तं गमितः । उक्तं च - " दत्ते विपत्तिमासत्तिः, प्रभोरत्युग्रतेजसः ।।
ग्रहमस्तमितं प्राहु-र्गतं मार्तण्डमण्डले ॥१॥" - अनु० इति स्तूयमाना राजकारितप्रवेशमहामहाः पौषधागारं प्राप्ता धर्ममुपादिशन् -
"भक्तिः श्रीवीतरागे भगवति करुणा प्राणिवर्गे समग्रे दीनादिभ्यः प्रदानं श्रवणमनुदिनं श्रद्ध्या सुश्रुतीनाम् । पापापोहे समीहा भवभयमसमं मुक्तिमार्गानुरागः
सङ्गो निःसङ्गचित्तैर्विषयविमुखता हhिणामेष धर्मः ॥शा" - स्रग्धरा इत्याकर्ण्य प्रबुद्धा बुद्धभक्ता नृपादयोऽर्हद्धर्मे निश्चला आसन् ॥ .
॥ इति चतुर्दशी कथा ॥१४॥
* * * परमपुंस्त्वेन स्तुतिमाह - त्वामेत्यादि हे मुनीन्द्र ! मुनयो :- ज्ञानिनः त्वां परमं पुमांसं - परमं पुरुषम् आमनन्ति भणन्ति-अवबुध्यन्ते । वेदेऽपि - 'पुरुष एवेदं ग्नि सर्वं यद् भूतं यच्च भाव्यम्, उतामृत त्वस्येशानो यदन्नेनातिरोहति' इति महिमवर्णनम् । परमपुंस्त्वं बाह्यान्तरपुंसोरपेक्षया । बाह्यः पुमान् कायः । आन्तरः पुमान् सकर्मा जीवः । परमः पुमान् निष्कर्मा सोऽनन्तचतुष्कः सिद्ध उच्यते । किंभूतम् ? 'अमलं' रागद्वेषमलरहितम् । आदित्यस्येव वर्णः- कान्तिर्यस्य तमादित्यवर्णम् । तमसो दुरितस्य परस्तात् - परतो
का १५०