________________
॥ श्री मानतुङ्गसूरिविरचितम् ।।
वर्तमानम् । पुराऽर्हतो रविसाम्यं क्षिप्तम्, साम्प्रतं किमित्युक्तं? भण्यते, तेजोन्शमात्रलब्धिसाम्यात् । परमार्थतो नभोभ्रमरयोरिव समुद्रबिन्द्वोरिव मन्दराण्वोरिव महदन्तरालं परमपुरुषालोकसूर्यालोकयोरिति । भानुरपि तमसोऽन्धकारस्य परतस्तिष्ठति । अन्यच्च मुनयः सम्यग-अन्तः- कर- णशुद्ध्या त्वामेव, एवशब्दो निश्चये, उपलभ्य - प्राप्य-मत्वा मृत्युम्अत्यन्तं भयंकरं मरणं जयन्ति-स्फोटयन्ति च। अत्र ॐ जूं सः मृत्युंजयाय नमः इति मृत्युंजयरक्षा । अन्यच्च शिवपदस्य - मोक्षस्थानस्य अन्यः - त्वत्तोऽपरः शिवः-प्रशस्तो निरुपद्रवो वा पन्था-मार्गो नास्ति । मुक्तिकारणं त्वमेव अतः श्रयणीयः । इति वृत्तभावार्थः ॥२३॥ महत्त्वे कथा -
चण्डिका चालिता गल्ले, कृतं च करजक्षतम् ।
मुञ्चमानाऽश्रु चक्षुर्त्यां, देवताऽभूद् वरप्रदा ॥१॥ - अनु० पूर्वं श्रीआर्यखपुटसूरयः स्तोत्रत्रयोविंशप्रवृत्तादिदेवमन्त्रस्मृत्या प्रसन्नसर्वानुभूतिचक्रादत्तवराः प्राप्तदुष्टव्यन्तरसाधनोपायाः श्रीउज्जयिनीं ययुः। पुरोधाने चण्डीभवने 'उषायामूषुरुषर्बुधज्वलद्विद्याप्रतापाः । सा मिथ्यादृष्टिर्दुष्टा वसतिजने कुप्यति विशेषतः श्वेताम्बरेषु। अतो विकृतरूपा पीतमदिरेवाताम्रमुखी प्रभुपार्श्व प्राप्ता । प्रभवो ध्यानमा-पूर्योपविष्टाः । दृष्टा सा क्रुध्यन्ती । गल्ले नखक्षतं दत्तम् । तत् कुलिशकर्कशं जातम् । देवी दृग्भ्यामश्रूणि मुञ्चन्ती वरं ददौ । गुरुभिर्वधनिषेधः कारितः । जनोपसर्गो वारितः । शान्तीकृता सा । प्रत्यूषे प्रभुपुरःसरा पौरैः सहोपाश्रयं प्रति प्रस्थिता । पुरद्वाराद् व्यावर्तिता पूज्यांही नत्वा स्वायतनं गता । कपोले नखरेखा तथैव स्थिता । लोकः सम्यगाराध्यवचनमाराधयत् । सम्यक्त्वं बहवः प्रपेदिरे । गुरुगुणान् स्मरन्तः स्वमन्दिरमीयुर्जनाः । उक्तं च - १. उषर्बुधः = अग्निः ।
ना १५१