________________
॥ श्री भक्तामरस्तोत्रम् ॥
"गुणिनः स्वगुणैरेव, सेवनीयाः किमु श्रिया ?। कथं फलर्द्धिवन्ध्योऽपि, नानन्दयति चन्दनः ? ॥१॥" - अनु०
॥ इति पञ्चदशी कथा ।।१५।।
अथ सर्वदेवनाम्ना जिनं स्तौति - त्वामव्ययमित्यादि __ हे सर्वदर्शिन् ! सन्तो - विचक्षणा यतयः त्वां एवंविधं प्रवदन्तिप्रकर्षेण ब्रुवते, जानन्तीत्यर्थः । किंविशिष्टम्? न व्येति - न चयापचयं गच्छतीत्यव्ययस्तं सर्वकालस्थिरैकस्वभावम् । विभाति-परमैश्वर्येण शोभत इति विभुस्तम्। विभवति कर्मोन्मूलने समर्थो भवतीति वा विभुस्तं, इन्द्रादिप्रभुं वा। आध्यात्मिकैरपि न चिन्तितुं शक्यस्तमचिन्त्यम् । अत्यद्भुतगुणयुतं वा। गुणानां न सङ्ख्या -इयत्ता यस्य तमसङ्ख्यं, संसारस्यानादित्वादनन्तज्ञानोऽपि निःशेषतया जीवानां भवान् न सङ्ख्याति - न आचष्टे इत्यसङ्ख्यं, अनन्तार्थान्-अकारादीन् वर्णान् न सङ्ख्यातीत्यसङ्ख्यम् । अनन्तार्थत्वमागमे - __ "सव्वनईणं जा हुज्ज, वालुया सव्वउदहि (सव्वोदहीण?) जं तोयम् ।
तत्तो अणंतगुणिओ, अत्यो इक्कस्स सुत्तस्स ॥१॥" गुणतः कालतो वा सङ्ख्यातुमशक्यस्तमसङ्ख्यम् । आदौ भव आद्यः, लोकव्यवहारसृष्टिहेतुत्वात् तम्। नमो अरहंताणमिति पञ्चपरमेष्ठिष्वर्हतां प्रथमतया आद्यम् । चतुर्विंशतिजिनेष्वाद्यं वा प्रथमतीर्थंकरं स्वस्वतीर्थस्यादिकरत्वात्, सर्वजिनगण आद्यो वा सोपायेन सिद्धं वा। बृंहतिअनन्तानन्देन वर्धत इति ब्रह्मा तं, ब्रह्म-निर्वाणं तद्योगाद् ब्रह्माणम् । तेजोरव्योरिव सिद्धसिद्धयोरभेदात् सर्वकर्ममुक्तं वा। सकलसुरेषु ईशितुं शीलमस्य तमीश्वरं कृतार्थं वा। अनन्तज्ञानदर्शनयोगादनन्तम्। न अन्तो मृत्युरूपो यस्य तम्। अनन्तचतुष्टयसमृद्धं वा। अनङ्गस्य-कामस्य केतुरिव
ना १५२ |