________________
॥ श्री मानतुङ्गसूरिविरचितम् ॥
I
तम् । यथा केतुरुदितो जगत्क्षयं कुरुते, तथा भगवान् कन्दर्पस्य क्षये हेतुः । न अङ्गानि-वैक्रियौदारिकाहारकतैजसकार्मणान्येव केतुः-चिह्नं यस्य तमनङ्गकेतुम् । योगिनां- मनोवचः कायजितां चतुर्ज्ञानिनां ध्यानिनां वा ईश्वरं नाथम्। अथवा योगिनां-सयोगकेवलिनां मान्यत्वादीश्वरम्। विदितः अवगतः सम्यग्ज्ञानदर्शनचारित्ररूपो योगो येन । अथवा विदितो योगो ध्यानिभिर्यस्मात् तम् । अथ च विशेषेण दितः खण्डितो योगो-जीवेन सहायः पिण्डाग्निनीरक्षीरन्यायेनात्यन्तं लग्नः कर्मसम्बन्धो येन तम् । अनेकं ज्ञानेन सर्वगतत्वात् । अथवा सिद्धानामनेकेषां एकत्रावस्थानात् । उक्तं च
" जत्थ य एगो सिद्धो, तत्थ अणंता भवक्खयविमुक्का | अन्नुन्नमणाबाहं, चिट्ठति सया सुही सिद्धा || १||" - आर्या अनेकं गुणपर्यायप्रेक्षया वा, ऋषभादिव्यक्तिभेदाद् वा । " नामजिणा जिणनामा, ठवणजिणा हुंति देवपडिमाओ ।
>>
दव्वजिणा जिणजीवा, भावजिणा समवसरणत्था ||१|| - आर्या इति व्यक्त्या वा । एकम् - अद्वितीयमुत्तमोत्तमं एकं जीवद्रव्यापेक्षया वा । ज्ञानं क्षायिकं केवलं स्वं स्वकीयं रूपं यस्य तं ज्ञानस्वरूपम्। सर्वकर्मक्षयादात्मस्वभावो यस्य तं ज्ञानस्वरूपं चिद्रूपं वा । न मलानिअष्टादश दोषा यस्य तममलम् । अथैतानि पञ्चदश विशेषणानि परदर्शनिषु तत्तद्देवाभिधानत्वेन प्रसिद्धानीति तर्कापोहः स्वबुद्ध्याऽत्र प्रामाणिकैः प्रमाणकोटिं प्रापणीयः । (ग्रं. ८०० ) इति वृत्तार्थः ||२४|| ***
किञ्च - बुद्धस्त्वेत्यादि
हे विबुधार्चित !- शक्रमहित ! बुद्धः सप्तानामन्यतमः सुगतस्त्वमेव । कस्मात् ? पदार्थेषु बुद्धिबोधात् - मतिप्रकाशात्, यतो 'बुद्धिर्भवति
१५३