________________
॥श्री भक्तामरस्तोत्रम् ॥
बौद्धेषु'। अथ सत्यार्थो बुद्धस्त्वमेव, धर्मे बुद्धिप्रकटनाद्, वा विबुधाविशिष्टपण्डिता- गणधरास्तैरर्चितस्तीर्थंकरस्तस्य बुद्धि:- केवलज्ञानं तया बोधो-वस्तुस्तोमस्य परिच्छेदस्तस्माद् विबुधार्चितबुद्धिबोधात् त्वमेव बुद्धोज्ञाततत्त्वो भवसि। यतो बुद्धः स्वमांसदानेन वृथा कृपालुरिति । हे देव ! शं-सुखं करोतीति शङ्करः, स यथार्थनामा त्वमसि, भुवनत्रयशङ्करत्वात्त्रिलोकीसुखकारित्वात् । स शङ्करो रुद्रः कपाली नग्नो भैरवः संहारकृत्, (अतः) न शङ्करः। हे धीर ! दधातीति धाता - स्रष्टा त्वमेव कृतार्थनामा, शिवमार्गविधे रत्नत्रयरूपनियोगस्य विधानात्-करणात् । स ब्रह्मा जडो वेदोपदेशात् नरकपथमुदजीघटत्। हे भगवन् ! व्यक्तं-प्रकटं पुरुषोत्तमस्त्वमेवासि शक्तिमति (?) प्रकृष्टपुरुषेषूत्तमः । यत आजन्मासौ परार्थव्यसनी उचितक्रियावान् अदीनमनाः कृतज्ञो दृढप्रतिज्ञो गम्भीर इति। स विष्णुः पुरुषोत्तमत्वं कृतार्थं न धत्ते, क्वापि क्वापि कपटप्रकटनाद् बलिच्छलनादिषु गोपीषु च । इति वृत्तार्थः ॥२५।।
अत्र गरिमोद्रिणं यथा - " जितशत्रुस्त्रियोऽभुवन् - न साध्या व्यन्तरैश्च याः ।
ताश्च सज्जीकृताः स्वाह्रि-वारिणा शान्तिसूरिणा ॥१॥" तथाहि - "पुरा शौर्यपुरस्थाने, जितशत्रुरभून्नृपः । नीतिकन्दो भुजावीर्य - पराजितपराहवः ॥११॥-अनु० द्वासप्ततिरभूद् रम्भा-प्रभाऽसुरसुरश्रियाम् । पुरजिद्दाररूपाणां, तस्यान्तः पुरयोषिताम् ॥२॥ आक्रीडे क्रीडितुं पुष्पा-पीडाः क्रीडाचले ययुः । मेराविवोर्वशीमुख्याः, सर्वास्ताः शर्वरीशभाः ॥३॥
१. गृहोद्याने । २. चन्द्रकान्तयः ।
का १५४ |