________________
॥श्री मानतुङ्गसूरिविरचितम् ।।
छलं लब्ध्वा क्षुद्रभूत-प्रेस्ता अस्तात्मचेतनाः । सौधमानिन्यिरे राज्ञा, यानारूढा गतप्रभाः ॥४॥ दुष्टव्यन्तरदोषेण, सकला विकलाङ्गकाः । निश्चेष्टाः समकालं ता, आसन् पाञ्चालिका इव ॥५॥ त्वरितं त्वरितं राजा-ऽचीकरद् रुक्प्रतिक्रियाः । वैद्यानां मान्त्रिकाणां च, तान्त्रिकाणां विपश्चिताम् ॥६॥ बौद्धा आकारिताः शैवाः, सांख्या वैशेषिकास्तथा । वैदिका विदुराश्चक्रुः, स्वस्वाम्नायप्रकाशनम् ॥७॥ न जातः कोऽपि तैः सर्वै-रुपकारो नृपौकसि । भाग्यनाशे यथाऽऽरब्यो, व्यवसायोऽफलो नृणाम् ॥८॥ मास्येकस्मिन् व्यतिक्रान्ते, शान्तिसूरिर्गणी गुणी । विहतस्तां पुरी पौरै-रभिगम्य प्रवेशितः ॥९॥ प्रभुर्भक्तामरस्तोत्र-चतुर्विंशादिवृत्ततः । सिद्धचक्रेश्वरीक्लृप्त-महाशक्तिसमन्वितः ॥१०॥ विचेताश्चिन्तया भूपो, न चाकारयति स्म तान् । प्रभावनां कर्तुकामा-नपि राज्ञीचिकित्सया ॥१॥ ततोऽवधूतवेषेणा-भ्राम्यन्नृपगृहान्तिके । निर्दोषं नीरुजं ग्लास्नु, करोमीति वदन् विभुः ॥१२॥ आकर्ण्य तद्वचो राजा, सूरीनाकार्य कार्यवित् । हैमे पीठे निवेश्योच्चै-रन्तःपुरमदीदृशयत् ॥१३॥ प्रसद्य भगवन् ! सद्यो, राज्ञीजीवितदानतः । मम जीवसमुद्धारं, कुरु राज्यं गृहाण च ॥१४॥ इति विज्ञापितः सूरि-र्दूरीकृत्य पुराकृतान् । रक्षौषधिमणीयन्त्र-कण्डकांस्तत्तनुस्थितान् ॥१५॥ आनाय्य नीरं प्रक्षाल्य, स्वांही गुरुभिरर्पितम् । राज्ञोपात्तं प्रहृष्टेन, दुःस्थितेनेव शेवधिः ॥१६॥
१. ग्लानियुक्तम् ।
ना
१५५
का