________________
॥ श्री भक्तामरस्तोत्रम् ॥
अम्बुनः सेवनात् पाना-चक्रायाश्च प्रभावतः । प्रणेशुय॑न्तराः क्रूराः, सूरादिव दिवाऽन्धकाः ॥१७॥ द्वासप्ततिः स्फुरद्वेष-भूषणा गतदूषणाः । निर्मिता नृपसुन्दर्यः, शान्तिसूरिमुनीन्दुना ॥१८॥ (ततः) गुरुपार्श्वे धर्ममश्रौषीत् सपरिवारो नृपः । यथा - ज्ञानादित्रितयोच्चशालकलितं शीलाङ्गसंज्ञैः पुरः सत्सूत्रैः कपिशीर्षकैः परिगतं दानादिसद्गोपुरम् । क्षान्त्याधुच्चदशप्रकारविलसद्यन्त्रं शमाम्भोनिधि भीताः कर्मरिपोः श्रयध्वमधुना सद्धर्मदुर्ग जनाः !।।१९।। - शार्दुल० इति श्रुत्वा नरेन्द्रेण, जैनो धर्मः समादृतः । सकले मण्डले क्लृप्ता, जीवरक्षा शुभावहा ॥२०॥ - अनु० राज्ञीभिश्च गुरोः पार्थे, प्रपेदे धर्ममार्हतम् । विशुद्धभावनाराजि-चेतोभिः पञ्चमीतपः ॥२१॥ प्रासादान कारयामास, जैनानुत्तुङ्गत्तोरणान् । जिनार्चानां प्रतिष्ठाश्च, गुरुवाक्याज्जनेश्वरः ॥२२॥ प्रभावनां जैनमतस्य कृत्वाऽ-सौ साधवीं धर्मधुरं च धृत्वा । दिवं ययौ शुद्धसमाधिभव्यः श्रीशान्तिसूरिः सुरराजसेव्यः॥२३॥
- उपजातिः ।। इति षोडशी कथा ।।
* * * अथ पुनर्जिनं नमन्नाह - तुभ्यमित्यादि ___ हे नाथ ! तुभ्यं भवते नमः । तुभ्यमत्रैकवचनकरणात् सर्वदेवपरिहारेण
भगवते एकस्मै नमः-नमस्कारोऽस्तु । नतौ नमस्शब्दोऽव्ययः। किंभूतया? त्रिभुवनार्तिहराय-सद्वचःकरणाभ्यां विश्वत्रयपीडानाशनाय। यः सर्वेषां कृच्छ्रहन्ता स एव वन्द्यः। हे स्वामिन् ! तुभ्यं नमोऽस्तु । क्षितितलस्यभूपीठस्य अमलभूषणाय-निर्मलालङ्काराय। यो विमलकलया भुवनमल
ना १५६ |