________________
॥श्री मानतुङ्गसूरिविरचितम् ॥
करुते स नमस्यः। अथ (वा) क्षितिः-पृथ्वी तलं-पातालं अमलंस्वर्गस्तेषां त्रयाणां लोकानां भूषणाय । हे ईश! तुभ्यं नमोऽस्तु । त्रिजगतः-त्रैलोक्यस्य परमेश्वराय-प्रकृष्टनाथाय। यो जगदीशः स नम्य एव । हे जिन ! तुभ्यं नमोऽस्तु । भवोदधिशोषणाय-संसारसागरसन्तापनाय । यो दुरन्तं संसृतिजलधिं शोषितवान् स नमस्कारार्ह एव इति । वृत्तार्थः ॥२६॥
मन्त्रोऽपि - ॐ श्रीं ह्रीं क्लीं महालक्ष्म्यै नमः। सुरभिसद्यस्कपीतपुष्पैर्लक्षजापात् सिद्धिः । .
महिम्नि कथा - श्रेष्ठी चनिकनामा यः, पत्तने दुर्गतोऽभवत् । 'तुभ्यं नमो' नमस्कारा-च्छ्रिया स्वर्णपतीकृतः ॥१॥ - अनु०
श्रीअणहिल्लवाटके श्रीमालवंश्यो निःस्वो वणिगवसत् । स परिसरग्रामेभ्यः शिरः पुट्टलकैश्चनकविक्रयणाच्चनिक इति प्रतीतः। तस्यैकदा ग्रामं गच्छतो मार्गे श्रीउद्योतनसूरयो गुरवो मिलिताः। तेन भक्तिपूर्व वन्दिताः। गुरुभिर्धर्मपृच्छा कृता । तेनोक्तम्-प्रभो ! दौःस्थ्ये को धर्मनिहिः? सर्वत्र पराभूयते दरिद्रः । उक्तं च - " पंथसमा नत्यि जरा, दारिद्दसमो पराभवो नत्यि ।
मरणसम नत्यि भयं, छुहासमा वेयणा नत्थि ॥१॥" - आर्या गुरुभिरुचे - "धर्माद् धनं धनत एव समस्तकामाः कामेभ्य एव सुखमिन्द्रियजं समग्रम् । कार्यार्थिना हि खलु कारणमेषणीयं धर्मो विधेय इति तत्त्वविदो वदन्ति ॥॥"
- वसन्त० इति स्तवस्य षड्विंशं वृत्तं भाणंभाणं पञ्चासरपार्श्वदेवो नमस्करणीयः। शक्तितस्त्यागतपसी भवतः। शीलमित्याङ्गिको गुणः पालनीयः। महालक्ष्मीमन्त्रश्च जप्य इति । सोऽवदत्-सर्वमेतत् करिष्ये । गुरुन् नत्वा
ना १५७