________________
॥श्री भक्तामरस्तोत्रम् ।।
स्वकृत्ये लग्नः । 'तुभ्यं नमो' भणनपूर्वं पार्श्व नित्यं ववन्दे । नमस्काराष्टशतमजपत् । परजनी जननीभगिनीवदमस्त । यत्र ग्रामे चनकार्थं वव्राज तदन्तरा युगादिदेवभक्ता महालक्ष्मीमूर्तिः। आगच्छन् गच्छन् तां नमोऽकरोत् । एवं कुर्वतः षण्मासी गता। अन्येधुर्मध्याह्ने श्रीप्रासादे दिव्याभरणवसनां सहसनां कुङ्कमादिकृताङ्गरागां सरागामङ्गनामपश्यत् । सा तमाह-भो पौट्टलिक ! किं करोषि?। स आह देवी नमन्नस्मि। साऽऽह-किं मोघेन श्रीनमनेन? स्वयंवरां मामङ्गीकुरु, भज भोगान्, त्यज दौःस्थ्ययोगान् । स आह स्म-त्वं मे माता, एतन्नर्मणाऽपि न वाच्यम्, कर्मणा किमुच्यते?। परस्त्रियो जनन्यो मे व्रतमस्ति। पुनः पुनरुक्त्या प्रत्युक्त्या स उक्तोऽपि नाचलच्छीलात्। श्रीः साक्षाद्भूयाभाषत-वत्स! तुभ्यं नमो वृत्तजपनतुष्टचक्रायाः सख्या वचनात् परीक्षितोऽसि, वरं वृणु। तेनोचेनै:स्वयं निर्गमय। देव्योक्तम्-अद्य सन्ध्यां यावच्चनकाः क्रीत्वा कोष्ठिकासु स्थाप्याः प्रातः (ते) कनकीभविष्यन्ति। इत्युक्त्वाऽन्तरधत्त श्रीः। तेन सञ्चिताश्चनकाः। गृहमागतेन कोष्ठिकात्रयं भृतम्। विभाते स्वर्णमया बभूवुः। स स्थालं भृत्वा वृद्धभीमदेवराजस्य प्राभृतीचक्रे । विस्मितेन राज्ञा पृष्टः-किमर्थं कनकचनकघटनम्?। चनिकोऽवोचत् श्रीवरदानादिप्रबन्धम्। राज्ञा तत् तस्य प्रसादीकृतम्। सौधार्थं भूर्लब्धा । नव्यं गृहं कारितं चक्रायुतश्रीयुगादीप्रासादश्च । लक्ष्मीप्रासादोऽप्युद्धृतः । क्रमेण तीर्थयात्रामसूत्रयत्। नित्यं त्यागभोगयुतः सुखभाजनमभूच्चनिकः श्रेष्ठिमुख्यः ।।
।। इति सप्तदशी कथा ।।
* * * पुनर्युक्त्या गुणान् स्तौति - को विस्मयोऽत्रेत्यादि
हे मुनीश ! यदीत्यङ्गीकारे । नामेत्यामन्त्रणे। हे सकर्णा ! अस्माभिरङ्गीकृतोऽयमर्थः, निरवकाशतया-पञ्चास्तिकायरुद्धलोकमध्यवन्नैरन्तर्येण सर्वा
ना १५८ |