________________
॥ श्री मानतुङ्गसूरिविरचितम् ॥
गव्यापकतया पुरुषान्तरेऽनवस्थानतया अशेषैः-सर्वैर्गुणैः त्वं संश्रितःआशिश्रियिषे। अत्रार्थे को विस्मयः ? - किं कुतुकम्? अन्यच्च दोषैःदूषणैः स्वप्नान्तरेऽपि - स्वप्नावस्थायामपि कदाचिदपि कस्मिंश्चिदपि क्षणे नेक्षितोऽसि-न दृष्टोऽसि-न विलोकितोऽसि। अत्रापि को विस्मयः? किमाश्चर्यम्? यतो गरुडदर्शनाद् भुजगा इव सूर्येक्षणात् तमश्चया इव तीर्थकराद् दूरतो नेशुर्दोषाः। किंभूतैः दोषैः? उपात्तैः-गृहीतैः-प्राप्तैर्विविधैः-नानारूपैराश्रयैर्जात-उत्पन्नो गर्वः-वयं सर्वजनाश्रयाः गुणा जिनाश्रया एवेतिरूपो दर्पो येषां तैः। अथच (वा) उपात्तः-स्वीकृतो विविधानाम्-अनेकेषां विबुधानां-देवानां वा आश्रयः-आश्रयणं तस्माज्जातो-भूतो गर्व:-अहङ्कारो येषां तैः। भगवदङ्गे गुणानां निरन्तराश्रयाद् दोषाणामभावात् कवेरित्युक्तिः। पूर्वं 'सम्पूर्णमण्डल' वृत्ते गुणानां त्रिभुवनव्यापकत्वं कीर्तिद्वारेणोक्तम् । साम्प्रतं त्वदाश्रया एव गुणाः (इति) न पौनरुक्त्यम् । इति वृत्तार्थः ।।२७।।
मन्त्रोऽयम् - ॐ नमो ऋषभाय मृत्युंजयाय सर्वजीवशरणाय परमब्रह्मणेऽष्टमहाप्रातिहार्यसहिताय नागभूतयक्षवशंकराय सर्वशान्तिकराय मम शिवं कुरु कुरु स्वाहा । वार २१ स्मरणात् क्षुद्रोपद्रवनाशो वाञ्छितलाभश्च ।। प्रभावे कथा यथा -
रुद्रोऽप्यदृश्यतां यातः, स्वप्नेऽपि ददृशे नहि । शातवाहनभूपस्य, पुत्रोऽभूज्जिनसेवया ॥१।। - अनु० 'गोदावरी' रोधसि दक्षिणस्यां दिशि 'प्रतिष्ठानपुरं' समस्ति । श्रीहालभूपोऽजनि तत्र वीर-स्त्यागी गुणी सर्वकलश्च भोगी ॥२॥
- उपजातिः तस्यावरोधेऽपि महत्यपत्यं नासीत् ततोऽखिद्यत भूमिपालः । बहूनुपायान् मणिमूलमन्त्रान् व्यरीरचन्नाप सुतोद्भवं तैः ॥३॥
का १५९ |