________________
॥ श्री मानतुङ्गसूरिविरचितम् ।।
अपि जगताम् दुरितानि हन्ति, सहस्रकिरणः दूरे आस्ताम्, प्रभा एव पद्माकरेषु जलजानि विकाशभांजि कुरुते।
हे नाथ ! तव स्तवनं दूरे आस्तां इत्यन्वयः।
'आस्ताम्' इति क्रियापदम्। तिष्ठत्वित्यर्थः। किं कर्तृ? 'स्तवनम्'। कस्य? 'तव' भवतः। कस्मिन्? 'दूरे' दूरस्थले, स्तवनस्याधिकमहिमत्वात्। किन्तु त्वत्संकथाऽपि-त्वत्पूर्वभवादिमूलप्रथमानुयोगागमोऽपि - त्वद्वार्ताऽपि वा जगताम्-आधारे आधेयोपचारात् जगन्निवासिलोकानां दुरितानि-पापानि हन्ति इति वाक्यम्। 'हन्ति' इति क्रियापदम्। का की? 'त्वत्संकथा'। कानि कर्मतापनानि? 'दुरितानि' ।
“अथाऽशुभम् । दुष्कृतं दुरितं पाप-मेनः पाप्मा च पातकम्।। किल्बिषं कलुषं किण्वं, कल्मषं वृजिनं तमः।
अहं कल्कमघं पङ्कः "- (अभि. का. ६, श्लो. १६, १७) इति हेमसूरयः। किंवि. स्तवनम्? 'अस्तसमस्तदोषं' निरस्तसर्वदूषणम्। अत्र दृष्टान्तमाह सहस्रकिरणो दूरे आस्ताम्।
'आस्ताम्' इति क्रियापदम् । कः कर्ता? ‘सहस्रकिरणः' सूर्यः। किन्तु प्रभैव-प्रभातकान्तिरेव पद्माकरेषु - तडागेषु जलजानि- पद्मानि विकाशयतिविकाशीकुरुते इति क्रियासम्बन्धः। 'कुरुते' इति क्रियापदम् । का की? 'प्रभा'। कानि कर्मतापन्नानि ? 'जलजानि'। कथंभूतानि ? 'विकाशभाञ्जि' विकस्वराणि ॥
अथ समासा :- समस्ताश्च ते दोषाश्च समस्तदोषाः, अस्ताः समस्तदोषा येन तद् अस्तसमस्तदोषम्। तव संकथा त्वत्संकथा। सहस्रं किरणा यस्य स सहस्रकिरणः। पद्यानां आकराः पद्माकराः, तेषु पद्माकरेषु। जले जातानि जलजानि, डप्रत्ययः। विकाशं भजन्तीति विकाशभाजि।। इति नवमकाव्यार्थः ।। ९ ।। અર્થ : સમસ્ત દોષને દૂર કરનાર આપની સ્તવના દૂર રહો, આપનું નામ પણ
ना १६ ला