________________
॥ श्री भक्तामरस्तोत्रम् ।।
पुरोधसोक्तः कुशसंस्तरस्थः स्नातो व्रती त्रिंशदहानि भूपः । हरं समाराधयदर्चनाद्यै - दृष्टो न स स्वप्नगतोऽपि तेन ॥४॥ हरार्चनाद् राजमनो निवृत्तं पुरा कृते कर्मणि च प्रवृत्तम् । परेद्यविज॑नमुनिं प्रणम्य पप्रच्छ पुत्रो भविता न वा मे ॥५॥ (पं.९००) भक्तामरस्तोत्रजपं तपस्वी समादिदेशादिविभुप्रभावात् । चक्रेश्वरी ते च वरं सुतार्थं प्रदास्यति क्षोणिप ! मा विषीद ॥६॥ अथादिदेवं कमलादिपुष्पै - रानर्च चक्रां विरचय्य चित्ते । को विस्मयोऽत्र स्मरणक्षणे श्री- हालो वरं प्राप दिनत्रयान्ते ॥७॥ पुष्पस्रज लाहि महीशराज्ञी- कण्ठे निवेश्या सुतजन्मनेऽसौ । चक्रवचोऽब्दस्तनिताच्छिखीवा - मुष्मात् तुतोषान्तरधाच्च देवी ॥८॥
- इन्द्रवज्रा पूजाविधेढौकनिकागतायै स्रजं प्रियायै व्यसृजत् प्रजेशः । तद्धारणाद् दोहदलक्षणं सा मुक्ताफलं शुक्तिमिवाशु दधे ॥९॥
- उपजातिः प्राचीव भानुं नरदेवदेवी प्रासूत सूनुं समये सुदीप्तम् । व्यधान्नृपो जन्ममहं च चक्रादासं च नाम्नेति समं वराप्तेः ॥१०॥ कलाः स शुक्लप्रतिपच्छशीव गृहणन् विवृद्धिं वपुषा च पुष्णन् । मुष्णस्तमस्तापततिं जगत्या रराज सद्वृत्ततया कुमारः ॥११॥ तरंस्तरण्याऽथ नृपस्तरङ्गिणीं ददर्श मीनं प्रहसन्तमुच्चकैः । अपृच्छदार्तश्चतुरांस्त ऊचिरे प्रजाभिये स्याद् विकृतस्य दर्शनम् ॥१२॥
- उपेन्द्रवज्रा न तद्गिरा सोऽथ धृतिं दधार नितान्तमन्तर्बिभयाञ्चकार । अन्येारुद्यानमसौ संसार जैन मुनि तत्र नमश्चकार ॥१३॥ - उपजातिः पृष्टोऽथ राज्ञा 'झषहास्यहेतु- मुवाच वाचंयमसत्तमस्तम् । उभावभूतामिह दारुभार- बाहौ पुरे निर्धन-तद्धनाह्वौ ॥१४।। तावेकदा काष्टकृते वनं गतौ मैत्रीयुतौ सक्तुकमात्रशम्बलौ । मूर्त्या कृशं धर्मतपोऽकृशं भृशं श्वेताम्बरं साधुमथो अपश्यताम् ॥१५॥-इन्द्र १. मत्स्यहासकारणम् ।
का
१६०
क