________________
॥ श्री मानतुङ्गसूरिविरचितम् ॥
मासोपवासव्रतपारणार्थिनेऽ - मुष्मै वितीर्णं तनु सक्तुभोजनम् । बीजं सुभूमाविव भावपाथसा सिक्तं महत्पुण्यकणाय जायते॥१६।।- इन्द्र० स निर्धनस्तद्धनमित्युवाच स स्माह चैनं मम नात्र भावः । कष्टादुपात्तं निजवस्तु दत्तं प्रत्यक्षहानिः कथमेष लाभ: ? ॥१७॥ - युग्मम् तत् सर्वथाऽहं निजसक्तुभाग-मस्मै न दास्यामि शरीरपुष्ट्यै । भोक्षे स्वयं दानगुणेन कीर्तिं लभेत लक्ष्मीपतिरेव नान्यः ॥१८॥ - उप० इति ध्वनन्तं तमुपेक्ष्य तद्धनं स निर्धनस्तस्य निपत्य पद्द्वये । तपस्विने स्वीयविभागसक्तुकान् ददे सुभक्त्या मुमुदे च चेतसा ॥१९।।
- वंशस्थम् वनान्तवर्ती किल कश्चनामर- स्तदा मुदाऽश्लाघत साधु साध्वहो !! प्रदानमेतेन कृतं प्रणम्य तौ ततो गतौ सञ्चितपुण्यपातकौ ॥२०॥ - वंशस्थम् यत उक्तं च -
समानेऽपि हि दारिद्रये चित्तवृत्तेरहोऽन्तरम् ।
अदत्तमिति शोचन्ते, न लब्यमिति वाऽपरे ॥२१॥ - अनु० निर्धनो दानमभूषयत् । उक्तं च -
आनन्दाश्रूणि रोमाञ्चो, बहुमानं प्रियं वचः । किं वाऽनुमोदना पात्र-दानभूषणपञ्चकम् ॥२२॥ - अनु० कालक्रमान्मृत्युमवाप्य भद्र- स्वभावधीनिर्धनधार्मिकाग्र्यः । दानावनीशादधनत्वबन्दे-र्मुक्तः क्षणेन क्षितिपत्वमाप ॥२३॥ - उप० पृथ्वीपतिश्रीघनवाहनात्मजः पाथोधिरोधोगतवाहवाहनः । स त्वं प्रभुत्वोदयमेघवाहनः क्षोणीश्वरोऽभूर्भुवि शातवाहनः ॥२४॥-इन्द्र० विक्रीय दारूण्युदरम्भरिर्यः स तद्धनस्तद्धनतां दधानः । ध्यानेन चार्तेन 'मृतस्तिमित्वं गोदाजले प्रापदसातधाम ॥२५॥ - उप० बेडाधिरूढं चिरकालदृष्टं भवन्तमारादवलोक्य जाता । जातिस्मृतिस्तस्य झषस्य दान-साक्षी सुरो बाढमहासयत् तम् ॥२६॥- उप० आस्तां समौ पूर्वभवेऽल्पकस्य दानाददानादधुना युवां तौ । एको नृपोऽन्यश्च तिमिस्तदेषा पुण्यांहसोर्युष्टिरिति प्रतीता ॥२७॥- उप० १. मत्स्यत्वम् । २. फलम् ।
ना १६१ |
-