________________
॥ श्री भक्तामरस्तोत्रम् ।।
ज्ञातं त्वया यत् क्षितिपाल ! सत्यं स 'सङ्घचारी मम कष्टकारी ।
आत्माशिहास्यात् तदहो न ते भीर्न देशसैन्यादिभयं कदाचित् ॥२८॥- उप० अन्यैरप्युक्तं च - मीनानने प्रहसिते भयभीतिमाह श्रीशातवाहनमृषिर्भवताऽत्र नद्याम् । यत्सक्तुभिर्मुनिरकार्यत पारणं प्राक् दैवाद् भवन्तमुपलभ्य झषो जहास ॥२९॥
- वसन्त सुपात्रदानस्य फलं विशालं विभाव्य नित्यं तदिदं प्रदेयम् । अदत्तदानाच जनाः पृथिव्यां न रूपसौभाग्यसुखादिभाजः॥३०॥ - उपेन्द्र० उक्तं च -
दानं महिमनिदानं, कुशलनिधानं कलङ्ककरिसिंहः । श्रीकलकण्ठीचूतः, सिद्धिवधूसङ्गमे दूतः ॥३१।। - आर्या अन्यच्च -
पूजामाचरतां जगत्रयपतेः सङ्घार्चनं कुर्वतां तीर्थानामभिवन्दनं विदधतां पुण्यं वचः शृण्वताम् । सद्दानं ददतां तपश्च चरतां सत्वानुकम्पाकृतां येषां यान्ति दिनानि जन्म सफलं तेषां सुपुण्यात्मनाम् ॥३२॥ शार्दुल० इत्थं महामुनिमुखादुपदेशमालां श्रुत्वा च पूर्वभवसङ्गतमात्मवृत्तम् । सम्यक्त्वशोभितमुपासकशुद्धधर्मं श्रीसातवाहननृपो नितरामुवाह ॥३३॥
- वसन्त० श्रीसिद्धाद्रौ श्रीयुगादीशवेश्मो- द्धारं चक्रे तीर्थयात्रां च चित्राम् । श्रीहालाह्वो जैनभूपस्ततोऽभूत् चक्रादासः क्षोणिचक्राधिराजः ॥३४॥
- शालिनी महाराष्ट्रेषु देशेषु, प्रतिष्ठानपुरे निजे । मुनिसुव्रतचैत्यस्यौद्धारं चक्रे स जैनराट् ।।३५॥ - अनु०
॥ इत्यष्टादशी कथा ।।
१. मत्स्यः । २. मत्स्यहास्यात् ।
का
१६२ |