________________
॥ श्री मानतुंङ्गसूरिविरचितम् ॥
अथ वृत्तचतुष्टयेन प्रातिहार्यचतुष्कमाह - उच्चैरशोकेत्यादि हे सेवकजनकल्पवृक्षसदृक्ष ! भवतः तव रूपं वपुः नितान्तम्- अत्यर्थम् आभाति-शोभते। किंभूतम् ? उच्चैः - अतिशयेन जिनदेहाद् द्वादशगुणोच्चः, यथा- प्रथम-तीर्थकृतस्त्रिकोशमानोऽन्येषां क्रमेण किञ्चिद्धीयमानो महावीरस्य द्वात्रिंशद्धनुर्मितो योऽशोकतरुः- कङ्केल्लिवृक्षस्तं संश्रितम्आश्रितं, केवलोत्पत्तेरनन्तरं अशोकवृक्षस्य सदा विद्यमानत्वात्; उत्उल्लसिता मयूखाः- किरणा यस्य यस्माद् वा तद् उन्मयूखं; अमलं स्वेदपङ्करहितत्वात् निर्मलम् । किमिवाभाति ? रवेर्बिम्बमिव । यथा रवेर्बिम्बं पयोधरपार्श्ववर्ति-मेघसमीपस्थं भाति । तदपि किंभूतम् ? स्पष्टाः प्रकटा उल्लसन्तः-उद्गच्छन्तः किरणा यस्य यस्माद् वा तत्, अस्ततमोवितानंक्षिप्तान्धकारप्रकरम् । सूरमण्डलरूपं जिनरूपं मेघतुल्यो नीलदलोऽशोक इति युक्तं साम्यं च ॥ इति वृत्तगर्भार्थः ॥ २८ ॥
***
सिंहेत्यादि
हे तीर्थपते ! मणिमयूखशिखाविचित्रे - रत्नकान्तिचूलाचारुणि हैमे सिंहासने कनकावदातं हेमगौरं तव वपुः - देहमुपविष्टं विभ्राजते - भाति । किमिव ? सहस्ररश्मेर्बिम्बमिव । यथा सूर्यमण्डलं तुङ्गोदयाद्रिशिरसि - उन्नत पूर्वाचलशृङ्गे वर्तमानं भाति । किंभूतम् ? वियति - आकाशे विलसन्तः- द्योतमाना येंऽशवः - करास्तेषां लतावितानं मालाविस्तारो यस्य यस्माद् वा तत्, अथ (वा) वियति - आकाशे वियन्तः - विचरन्तो वा विलसन्तः - स्मेरा येऽशवो नवोदयत्वाद् रक्तवर्णाः करास्त एव लतावितानं रक्ताशोकप्रवालवल्लीमण्डुपो यस्माद् यस्मिन् वा तद् वियद्विलसदंशुलतावितानम्। अत्रांशुवृन्दसमा मणिमयूखमाला, पूर्वाद्रिशिखरसमानं सिंहासनं, रविबिम्बोपमानं त्वद्वपुरित्युचिता समता । यतः प्रथमतीर्थकृतो रूपं
१६३