________________
॥ श्री भक्तामरस्तोत्रम् ॥
स्वर्णवर्णं वर्ण्यते । अन्येषामपि पञ्चदशानां विदेहविहारिणां वा । इति
वृत्तार्थः॥२९॥
***
कुन्देत्यादि
हे पारगत ! कलधौतकान्तं चामीकररुचिरं तव वपुः- देहं विभ्राजते । किंभूतम्? कुन्दावदाताभ्यां विशदाभ्यां चलाभ्यां शक्रादिधूयमानाभ्यां चामराभ्यां वालव्यजनाभ्यां चार्वी - मनोज्ञा शोभा - विभूषा यस्य तत् । किमिव ? सुरगिरेरुच्चैस्तटमिव-शिखरमिव । यथा शातकौम्भं- सौवर्णं उच्चैः उच्चं सुरगिरे:- मेरोः तटं प्रस्थं भाति । तदपि तटं उद्यन्-उद्गच्छन् शशाङ्कः - चन्द्रस्तद्वच्छुचिः-धवला निर्झरस्य वारिधारा - जलवेणी यत्र यस्माद् वा तत् । अत्र मेरुतटसमं श्रीनाभेयदेहं निर्झरजलधारा वरे चामरे इत्युपमा मनोरमा । इति वृत्तार्थः ॥३०॥
***
छत्रेत्यादि
हे पवित्रचरित्र ! उच्चैः - ऊर्ध्वं मूर्ध्नि स्थितं निविष्टं तव छत्रत्रयंआतपत्रत्रितयं विभाति । किंभूतम् ? स्थगितः - छादितो भानोः करप्रतापो येन, सूर्यकरोत्तापरोधकं; मुक्ताफलानां प्रकरस्य-समूहस्य जालेन -रचनाविशेषेण विवृद्धा वृद्धिं गता शोभा यस्य तत् । तत्र भवतः स्वर्गमर्त्यपातालरूपस्य त्रिजगतः परमेश्वरत्व- महाधिपत्यं प्रख्यापयत् कथयत् निरूपयदिति । अत्र प्रातिहार्यप्रस्तावनाप्रस्तावेऽनुक्ता अपि पुष्पवृष्टिदिव्यध्वनिभामण्डलदुन्दुभयः स्वधियाऽवतार्याः, यथा -
46
बिटट्ठाई सुरहिं, जलथलयं दिव्वकुसुमनीहारिं ।
पयरंति समंतेणं, दसद्धवण्णं कुसुमवासं ||१||" - आर्या इत्यागमे (आवश्यकनिर्युक्तौ, गा. ५४६) सुरकृता कुसुमवृष्टिः १ ।
१६४