________________
॥श्री मानतुझसूरिविरचितम् ।।
"देवा दैवीं नरा नारी, शवरष्चापि शावरीम् ।
तिर्योऽपि हि तैरस्थीं, मेनिरे भगवद्गिरम् ॥शा" - अनु० . इति पञ्चत्रिंशद्गुणोपेता दिव्यध्वनिर्जिनवाणी २ ।
"भामण्डलं चारु च मौलिपृष्ठे, विडम्बिताहर्पतिमण्डलश्रि'' ३। (अभिधानचिन्तामणौ का० १, श्लो० ५९)
देवदुन्दुभयो ध्वनन्त्याकाशे ४ । एतत् सर्वं यत्राशोकतरोः प्रादुर्भावस्तत्र स्याद् देशनाक्षणे । अशोकतरुसहचरितत्वात् पृथग् नादृताः कविना । इति वृत्तार्थः ।।३१।। मन्त्रो यथा - ___अरिहंतसिद्धआयरियउवज्झायसव्वसाहुसव्वधम्मतित्थयराणं ॐ नमो भगवईए सुयदेवयाए संतिदेवयाणं सव्वपवयणदेवयाणं दसण्हं दिसापालाणं पंचण्हं लोगपालाणं ॐ ह्रीं अरिहतदेवं नमः । एषा विद्या १०८ जापात् पठितसिद्धा वादे व्याख्यानेऽन्येषु च कार्येषु सर्वसिद्धि सङ्ग्रामे च जयं ददाति । व्यालतस्करभयं भिनत्ति ।। महिमनि कथा - स्वषे छत्रत्रयं देवं, समीक्ष्योच्छिन्नवंशकः । गोपालो जिनमानर्च, तुष्टा देवी ददौ वरम् ॥१॥
श्रीसिंहपुरे कश्चित् क्षीणकुलगोत्रः क्षत्रियो वसति स्म । स निर्धनत्वाद् गोधनं चारयति स्म । स भद्रकप्रकृतिजैनमुनिमवन्दिष्ट । स महर्षिः - "लक्ष्मीर्वेश्मनि भारती च वदने शौर्यं च दोष्णोर्युगे त्यागः पाणितले सुधीश्च हृदये सौभाग्यशोभा तनौ । कीर्तिर्दिक्षु सपक्षता गुणिजने यस्माद् भवेदङ्गिनां सोऽयं वाञ्छितमङ्गलावलिकृते श्रीधर्मलाभोऽस्तु वः ॥शा" इत्थंभूतां धर्माशिषं ददौ । गोपालक्षत्रियो गुरुदेशनां सुधामिवापिबत्, भक्तामरस्तवं पञ्चपरमेष्ठिमन्त्रं चापठत्, शश्वदस्मरत्, जिनधर्मं समाराध
का १६५