________________
॥श्री भक्तामरस्तोत्रम् ॥
यत्। एकदा निशि स्वप्ने छत्रत्रयादिप्रातिहार्यवर्यं श्रीयुगादिजिनं ददर्श चित्ते तुतोष च । प्रातर्धेनूश्चारयन् भूतलाजलदवृष्टिप्रकटीभूतं प्रथमजिनबिम्बं नदीतटे कुटीरके स्थापयित्वाऽऽनर्च (ग्रन्थाग्रं १०००) । तत्पुरः स्तवं त्रिसन्ध्यमजपत् । एवं षण्मास्यतिचक्राम । अन्येारेकत्रिंशं वृत्तं स्मरतो गोपालस्य प्रसन्ना चक्रेश्वरी राज्यवरं ददौ । दैववशात् सिंहपुरेशो निष्पुत्रः पञ्चत्वमाप। राजवंश्यानां कलिमालोक्य मन्त्रिसामन्ताद्यैः पञ्चदिव्यान(न्य) भ्यषिच्यन्त । भ्रामं भ्रामं सर्वत्र वने गोपालाय राज्यमयच्छत् (न्) । भृङ्गारेण नीरेणाभिषिक्तः। छत्रेण शीर्षे स्थितम् । चामराभ्यां स्वयमेव लुलितम् । हयेन हेषितम् । कुम्भिना कुम्भस्थलेऽधिरोपितः । निःस्वानेषु ध्वनिरुदलसत् । देवदत्त इति नामा. राजाऽभूत्। सिंहासनमलंचंकार । नीचोऽयमिति सीमालभूपाला न मन्यन्ते स्म तम्। एवं न जानन्ति ते यथा - " यः प्रमाणीकृतः सद्भि-स्तस्यान्तं न विचार्यते ।
अतुलेन तुलामेति, काञ्चनेन सहोपलः ॥१॥" “ नरह नरिंदह रिसिकुलह वरकामिणि कमलाह ।
अन्तागमणु न पुच्छियइ कह कुसलत्तणु ताह ? ॥२॥" इत्थमविमृशन्तः सामन्ताः कलहायोत्तस्थुः । सर्वरिपुबलचेष्टितं स्वं ज्ञात्वा तेन अप्रतिचक्रा स्मृता । दृग्गोचरमागतं परचक्रम् । दृषद्घटितमिव चित्रलिखितमिव मृन्मयमिव स्तम्भक्रियानिश्चेष्टं जातम्। बलवत्सङ्गेन किं न स्यात् ? । उक्तं च - "महीयसामवष्टम्भे, रेणुप्रायोऽपि कीर्तिमान् ।
धृता पतन्ती शेषाद्यै-रचलेत्युच्यते क्षितिः ॥१॥" ततो देवीप्रभावाद् भीताः सामन्ताः प्रणता निर्देशवर्तिनो जाताः। तदाज्ञां देवाधिदेवशेषामिव शीर्षे शेखरीचक्रुः । देवदत्तो राजा तेषु प्रतिकूलेष्वपि प्रसन्नोऽभूत् । उक्तं च
ना १६६