________________
॥ श्री मानतुङ्गसूरिविरचितम् ॥
" निर्गुणेष्वपि सत्त्वेषु, दयां कुर्वन्ति साधवः । न हि संहरति ज्योत्स्नां, चन्द्रश्चाण्डालवेश्मसु ॥॥ नोके व्यसनोद्रेके-ऽप्याद्रियन्ते विपर्ययम् । जहाति दह्यमानोऽपि, घनसारो न सौरभम् ॥२॥"
क्रमेण विक्रमाक्रान्तभूचक्रशक्रः परमजैनः श्रीआदिदेवं गुरुप्रासादे न्यवेशयत् । चिरं राज्यभागभूत् ॥
।। इति एकोनविंशी कथा ।।
* * * अथातिशयद्वारेण जिनं स्तौति - उन्निद्रेत्यादि हे जिनेन्द्र ! तव पादौ -चरणौ यत्र भूमौ पदानि गमनेऽवस्थानरूपाणि न्यासन् (धत्तः?) - धारयतः विबुधा-देवास्तत्र-धरापीठे पद्मानि-कमलानि परिकल्पयन्ति-रचयन्ति, निर्मापयन्तीत्यर्थः । किंभूतौ चरणौ? उन्निद्राणिविकस्वराणि हेम्नः- स्वर्णस्य नवानि-नूतनानि नवसङ्ख्या (का)नि वापङ्कजानिकमलानि तेषां पुजं - चयस्तस्य कान्तिः-द्युतिः, पर्युल्लसन्ती-समन्तादुच्छलन्ती या नखानां मयूखशिखा-किरणचूला, उन्निद्रहेमनवपङ्कजपुञ्जकान्त्या पर्युल्लसन्नखमयूखशिखया वाऽभिरामौ-रुचिरौ । कोऽर्थः? एका नवस्वर्णकमलकान्तिः पीता, अपरा दर्पणनिभा नखप्रभा च चरणौ वर्णविचित्रौ चक्रतुरिति। पद्यानां पुञ्जत्वमागमे (आवश्यकनियुक्तौ गा.५५५)
अप्युक्तम् - ____“सूरोदयपच्छिमाए, ओगाहंतीइ पुव्वओ एइ (ऽईइ) ।
दोसु पउमेसु पाया, मग्गेण य हुंति सत्तण्णे ॥१॥"
॥ इति वृत्तार्थः ।।३२।।
*
*
*
का
१६७ |