SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ॥श्री भक्तामरस्तोत्रम् ।। अथ संक्षिपति - इत्थमित्यादि हे जिनेन्द्र ! इत्थं-पूर्वोक्तप्रकारेण यथा - यद्वद् धर्मोपदेशनविधौधर्मव्याख्याक्षणे तव विभूतिः - अतिशयरूपा समृद्धिरभूत् तथा तद्वत् परस्य-ब्रह्मादिसुरस्य नासीत् । अत्र दृष्टान्तः - दिनकृतः - सूर्यस्य प्रहतान्धकारा-ध्वस्तध्वान्ता यादृग् - यादृशी प्रभा वर्तते विकाशिनोऽपि - उदितस्यापि ग्रहगणस्य-भौमादेस्तादृक्- तादृशी प्रभा कुतः - कस्माद् भवति?। चतुस्त्रिंशदतिशया यथा - स्वेदमलरोगमुक्तं सद्गन्धरूपयुक्तं वपुः १ पद्मगन्धः श्वासः २ रूधिरमांसौ क्षीरधाराधवलौ सुरभी च ३ आहारनीहारावदृश्यौ ४ चेति जन्मभवाश्चत्वारः ४।। योजनमिते भूप्रदेशे नरतिर्यक्सुरकोटाकोटेरवस्थानं १ चतुःक्रोशनादिनी सर्वभाषानुवादिनी भगवद्वाणी २ पृष्ठभामण्डलं ३ क्रोशपञ्चशतीमिते क्षेत्रे न दुर्भिक्षं ४ न रोगाः ५ न वैरं ६ न ईतयः ७ न मारिः ८ नातिवर्षणं ९ नावर्षणं १० न स्वचक्रपरचक्रजं भयं ११, एते चैकादश केवलोत्पत्तेरनन्तरं कर्मक्षयोत्थाः ११॥ गगने तीर्थकृत्पुरो धर्मचक्रं १ चामरयुगं २ पादपीठयुतं मणिसिंहासनं ३ छत्रत्रयं ४ रत्नखचितो महेन्द्रध्वजः ५ चरणन्यासे नव हेमपद्यानि ६ प्राकारत्रयं ७ चतुर्मुखरचना ८ चैत्यवृक्षः ९ अधोमुखतया कण्टकानामवस्थानं १० तरुनमनं ११ दुन्दुभिध्वनिः १२ पृष्ठानुपाती पवनः १३ प्रदक्षिणं ददानाः शकुनाः १४ गन्धजलवृष्टिः १५ पञ्चवर्णपुष्पवृष्टिः १६ नखकेशरोम्णः सहजावस्थानं व्रतात् परतोऽवर्धनं १७ चतुर्विधामराणां जघन्येऽपि पार्श्व कोटीस्थितिः १८ षड्ऋतूनां शब्दरूप-रस-गन्ध-स्पर्शानां चानुकूलता १९, एते एकोनविंशतिर्देवकृता अतिशयाः १९॥ एवं सर्वमीलनाच्चतुस्त्रिंशदतिशयर्द्धिर्यादृशी जिने तादृशी ब्रह्मादौ कुतः? । तेषां सरागत्वान्न कर्मक्षयः। कर्मक्षयं विना न उत्तमोत्तमता । तां विना प्रातिहार्यढेरभाव इति स्थितम् ।। अथ मन्त्रः - ॐ ह्रीं श्रीं कलिकुण्डदण्डस्वामिन् ! आगच्छ आगच्छ आत्ममन्त्रान् रक्ष रक्ष परमन्त्रान् छिन्द छिन्द मम सर्वसमीहितं कुरु कुरु ना १६८ ला
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy