SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ॥ श्री मानतुङ्गसूरिविरचितम् ।। हुंफट् स्वाहा । एतज्जापात् सकलसम्पदो भवन्ति। जापः सहस्र १२ रक्तश्वेतपुष्पैः कार्यः । गुरूपदेशाद् विधि यः ।। महिमकथा यथा - धवलक्वकवास्तव्यो, जिणहाकोऽतिदुर्गतः । चक्रेश्वरीप्रसादेन, दण्डाधीशोऽजनिष्ट सः ॥१॥ श्रीगूर्जरमण्डलेषु श्रीधवलक्वके श्रीश्रीमालवंशमौक्तिकं पाहापुत्रो जिणहाख्यः श्रावकोऽकिञ्चनत्वाद् घृतकुतुपकर्पासकणादिवहनेनाजीविकां चकार । सोऽन्यदा निजगुरूणां श्रीअभयदेवसूरीणां धर्मागारमगात् । वन्दिता गुरवः । गुरुभिर्धर्मलाभपूर्वकं - "धर्मः सनातनो येषां, दर्शनप्रतिभूरभूत् । परित्यजति किं नाम, तेषां मन्दिरमिन्दिरा' ॥॥" इति धर्मोपदेशो दत्तः । तेनोक्तम् - भगवन् ! स्वोदरभरणासहस्य दरिद्रस्य का धर्मक्रिया ? । उक्तं च - ___ "धणवंतह सुणहि सयणा बंधजणआणवडिच्छओ । कज्जकालि सयमेव लोउ तसु होइ बिइज्जओ ॥१॥ राउलदेउल गणइ भणइ ईसर ! वइ तुहं सिरि दारिद्दिय मनरुधि ठामु तुहूं बाहिरि नीसरी ॥२॥ रे दारिद्र्य ! नमस्तुभ्यं, सिद्धोऽहं त्वत्प्रसादतः । अहं सर्वत्र पश्यामि, मां कोऽपि हि न पश्यति ॥३॥" - अनु० इत्युक्ते प्रभुभिर्देवालयात् पद्मकोशस्था श्रीपार्श्वप्रतिमा चक्रेश्वरीमूर्तिसनाथा दापिता । कलिकुण्डाम्नायो भक्तामरस्तवश्च स्मर्तव्य इत्युक्तः प्रभून् नत्वा गृहमगात् । गृहमार्गे च शुचिः पार्श्वबिम्बमार्चिचत् त्रिः स्तवं मन्त्रं च सस्मार । एवं कुर्वन् जिनभाह्वोऽन्यदा ग्राममगमत् । तत्र त्रियामायां स्तवस्त्रयस्त्रिंशद्वृत्तगुणनक्षणे तत्पुरस्तेजः पुञ्जराजमानं सूर्यमण्डलसमानं प्रादुर्भूतं विमानम् । ततोऽवातरत् चक्रेश्वरीप्रतीहारी (आह च ) भद्र ! १. लक्ष्मीः । ना १६९ |
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy