________________
॥ श्री भक्तामरस्तोत्रम् ।।
જગતના દુરિતોને હણે છે, સૂર્ય દૂર રહો, (સૂર્યની) પ્રભા જ સરોવરોમાં કમળોને વિકસિત કરે છે.
__ * * * अथ स्तवनस्य रेखाप्राप्तं महिमानमाह नात्यद्भुतं भुवनभूषण ! भूतनाथ !
भूतैर्गुणैर्भुवि भवन्तमभिष्टवन्तः तुल्या भवन्ति भवतो ननु तेन किं वा
भूत्याश्रितं य इह नात्मसमं करोति ॥१०॥ दण्डान्वयः - हे भुवनभूषण ! हे भूतनाथ ! भुवि भूतैः गुणैः भवन्तम् अभिष्टुवन्तः भवतः तुल्याः भवन्ति न अत्यद्भुतम् वा ननु इह यः आश्रितम् भूत्या आत्मसमम् न करोति? तेन किम्?
हे भुवनभूषण ! हे भूतनाथ ! जना भुवि भवतः तुल्या भवन्तीत्यन्वयः। 'भवन्ति' इति क्रियापदम्। के कर्तारः? 'जनाः'। कथंभूताः? 'तुल्याः ' समानाः। कस्य? 'भवतः'। 'तुल्यार्थस्तृतीयाषष्ट्यौ' (सिद्ध. अ. २, पा. २, सू. ११६) इति षष्ठी। किं कुर्वतः? 'अभिष्टुवन्तः' स्तवं कुर्वन्तः। कं कर्मतापन्नम्? 'भवन्तं' त्वाम्। कैः करणभूतैः? 'गुणैः' औदार्यादिभिः। किंवि.? 'भूतैः' सद्रूपैः। कस्याम्? 'भुवि' पृथिव्याम्। हे भुवनभूषण!- हे जगन्मण्डन ! तत्तुल्यभवनं, नात्यद्भुतं-न अत्याश्चर्य, तव स्तवनमाहात्म्यात् त्वद्रुपा भवन्तीति भावः। अत्र व्यतिरेकमाह-ननु-निश्चितं वा तेन स्वामिना किं स्यात् इत्यन्वयः। 'स्यात्' इति क्रियापदम्। किं कर्तृ? “किं' कार्यम्। केन? 'तेन' स्वामिना। आश्रितेनेति शेषः। आक्षेपोक्त्या न किमपि इत्यर्थः। तेन केन? यः स्वामी आश्रितं-सेवकं भूत्या-सम्पदा आत्मसमं न करोतीत्यन्वयः।
‘करोति' इति क्रियापदम्। कथम्? 'न'। कः कर्ता? 'यः' स्वामी। कं कर्मतापन्नम्? 'आश्रितम्'। किंविशिष्टम्? ‘आत्मसमं' स्वतुल्यम्। कया?
का १७ ना