________________
॥श्री भक्तामरस्तोत्रम् ।।
श्रीआदिदेवस्तवस्मृतेः श्रीपार्श्वबिम्बार्चनात् तुष्टा मत्स्वामिनी चक्रा त्वां सधनमजेयं चिकीर्षुरिदं रत्नं दत्तवती । त्वया भुजे बद्धं रत्नं सर्ववश्यं करिष्यतीत्युक्तः सोऽग्रहीत् । साऽन्तरधात् । निजभुजे बद्ध्वा प्रातर्गृहं व्रजन् मार्गे त्रिभिश्चौरैरुक्तः - भो वणिज ! मुञ्च चार्म पात्रं मरिष्यसेऽन्यथा। मयि जीवति को गृहीता मदाज्यकुतुपमित्युक्त्वा बाणत्रयेण तस्करत्रयं जघान । पश्चादागतैः पान्थैस्तस्य विक्रमाद्भुतं दृष्ट्वा विसिमिये । चौरवधाद् रञ्जितैर्जयजयारवश्चक्रे । सा वार्ता धवलक्वकात् श्रीपत्तनं प्राप्ता । चौलुक्यभीमदेवराज्ञा श्रुता । आहूतो जिणहाकः । दृष्टः कपाटपुटविकटवक्षस्थलो जानुप्राप्तभुजार्गलोऽयम् । वसनहीनोऽपि तेजस्वी। खल्वाटोऽपि सच्छायः । एकोऽपि श्रीमान् । उवाच राजा-भो ! गृहाण गूर्जरदेशमध्ये क्रूरतस्कररक्षणक्षमं निष्कोशं मम मण्डलाग्रम् । तावदुचितभाषी शत्रुशल्यो नाम सेनानीरवादीत् -
"खंडउ तासु समप्पियइ जसु खंडइ अभ्यासु । जिणहा इक्कु समप्पियइ तुलचेल कप्पासु ॥१॥" जिणहाख्योऽपि तमुद्दिश्योचे - "असिधर धणुधर कुंतधर, सत्तिधरा य वहूअ । सतुसल ! जे रणि सूर नर, जणणि ति विरल पसूय ॥२॥" राज्ञोक्तम् - साधूक्तम् । शत्रुशल्यो नरेन्द्रमनो मत्वाऽवादीत् "अश्वः शस्त्रं शास्त्रं, वीणा वाणी नस्श्च नारी च । पुरुषविशेष प्राप्ता, भवन्ति योग्या अयोग्याश्च ॥१॥" - आर्या त्वयाऽऽदृतोऽयं सर्ववीरकोटीरो भविष्यति । उक्तं च - "प्रसन्नेऽधिपतौ ग्राह्या, मन्देनापि पदस्थितिः ।। ग्रामोऽपि शिष्ययत्येव, यद्बलाधिपतामिह ॥१॥" इति श्रीभीमस्तस्मै पट्टदुकूलं वेषं स्वर्णकरमुद्रिकं खड्गं धवलक्वा१ खड्गम् ।
ना
१७०