________________
॥ श्री मानतुंङ्गसूरिविरचितम् ॥
काधिपत्यं सैन्यं चादात् । स राजानं नत्वा निजपुरं प्राविशत् । क्रमात् सकलमलिम्लुचान् न्यग्रहीत् । तस्करनाम शास्त्रे स्थितं, न गूर्जरात्रासु । एकदा कश्चिच्चारणस्तत्परीक्षांचिकीः करभमचूचुरत् । जिणहारक्षकैः सोष्ट्रो धृतः । दण्डेशे पूजां कुर्वति तत्क्षणं ढौकितो बद्धश्चौरः । देव ! असौ दस्युः, किं क्रियते ? । अस्य सोऽङ्गुलिसंज्ञया वधमादिशत् । ततः पाटच्चरो वच उच्चैरुच्चचार
"इकु जिणहा अनुजिणवरह न मिलइ तारोतार ।
जेहिं अमारणु पूजीइ ते किम मारणहार ? ||१|| "
इति श्रवणान्मुक्तः । स उक्तश्च भो ! पुनश्चेच्चौरिकां करिष्यसि तदा मृत एवेति । स उवाच
इक्का चोरी सा य किय, जा खोलडइ न माइ । बीजी चोरी जे करइ, चारणु चोर न थाइ || १ || "
अन्यच्च - भवता वणिजा कथं पारिपन्थिका निगृहीताः ? अस्मान्मया सौराष्ट्रकचारणेन चौर्यं कृतं इत्युक्ते लब्धधनः स्वे कृत्ये लग्नः । जिनभाख्यो महामात्यः श्रीधवलक्वके श्रीपार्श्वप्रासादमकारयत् । कषपट्टरत्नमयीं श्रीपार्श्वनाथप्रतिमामप्रतिमां निरमीमपत् । श्रीदुर्लभदेवराजप्रतिबोधकारिश्रीजिनेश्वरसूरिपट्टमुकुटश्रीस्तम्भनकपार्श्वप्रकटनकृन्नवाङ्गवृत्तिकारश्रीअभयदेवसूरिपार्श्वात् प्रातिष्ठिपत् ताम् । महामहः महादानपुरःसरं गुरुवचनाच्चक्रेश्वरीयुक्श्रीयुगादिदेवप्रासादं व्यरीरत् । नवाङ्गवृत्तेः पुस्तकान्यलीलिखत् । सङ्घपतिरभूत् चिरं राज्यमभुनक् । सुभटमुकुट : श्रावकोत्तमो जिणहा (क) नामा दण्डाधिपः । अद्यापि तत्र पुरे पौट्टलिकानां शुल्कं न कश्चन गृह्णाति चेदादत्ते सोऽधीशो न नन्दति, जिणहाप्रभावादेव तत्कृता रीतिरियम् ॥ ३३ ॥
॥ इति विंशी कथा ||
अथ गजभयहरं तीर्थकरं स्तौति - श्योतन्मदेत्यादि
हे गजपतिगते ! त्वदाश्रितानां त्वच्चरणशरणस्थानां जनानां आपतन्तं
<<
,
-
-
१७१