________________
॥ श्री भक्तामरस्तोत्रम् ॥
अथ जिनस्तुतिसेवाफलमाह - (ग्रं० ३००) - नात्यद्भुतमित्यादि हे भुवनभूषणभूत ! भूतशब्द उपमावाची, हे विश्वमण्डनसमान ! नाथ ! - प्रभो ! - भूतैः - जातैः - विद्यमानैर्गुणैर्भुवि - पृथिव्यां भवन्तं-त्वामभिष्टुवन्तः - स्तुवन्तो जना भवतः - तव तुल्याः - समा भवन्ति एतन्नात्यद्भुतं - नातिचित्रम् । अत्र व्यतिरेकमाह - ननु - निश्चितं वा अथवा तेन स्वामिना किं कार्यं - किं प्रयोजनम् ? इह - भवे जनमध्ये वा यः स्वामी
आश्रितं - सेवकं भूत्या - ऋद्ध्या आत्मसमं-निजतुल्यं न करोति-न विधत्ते । अहमपि तीर्थंकरं स्तुवन् जिनध्यानैकतानमानसत्वेन तीर्थकृद्गोत्रार्जको भवितेति कवेराशयः ॥
अत्राम्नाय :
श्रीऋषभप्रभुः त्र्यशीतिपूर्वलक्षणानि गार्हस्थ्येऽस्थात् । पुत्रशतं देशशतराज्ये न्यधात्। विनीतापुरे ज्येष्ठसुतं भरतं न्ययुङ्क्त । विरक्तो भोगान्नाभुङ्क्त । याचकेभ्यः सांवत्सरिकदानं प्रादत्त । चतुर्भी राजन्यक्षत्रियसहस्रैः सत्रा व्रतमादत्त । शक्राभ्यर्थनया चातुर्मुष्टिकं लोचमकरोत् । कच्छमहाकच्छादयस्तथैवाकार्षुः । मौनी चावनीं विजहार । शुद्धभिक्षानभिज्ञो जनोऽशनं न विततार । प्रभोः पुरः कनक- किरीट - कटक - कन्याकरिकिशोर-कम्बल-कौशेयादि दधुस्ते, तेष्वकल्प्यतया भगवान् न किमपि जग्राह । तूष्णीक एव प्रतिज्ञामुवाह । क्षुधिताः कच्छादयो विमृश्य स्वर्धुनीतीरे कन्दफलाशनास्त्रपाभरादकृतगृहगमना वर्धितासंस्कृतालकत्वाज्जटिलास्तापसा अभूवन् ॥
इतश्च नमिविनमी राजपुत्रौ कार्यवशाद् दूरदेशं प्राप्तावायातौ, कच्छमहाकच्छयोर्निजपित्रोरमिलताम्, सर्व वृत्तान्तमलभेताम्। तावापृच्छ्य भरतेऽवहीलनां धृत्वा श्रीमदादीशं स्वामिनं सेवायै समगंसाताम् । निशितनिस्त्रिंशधरौ यत्र स्वामी क्रमौ न्यवीविशत् ततो भुवः कण्टकाद्युदधरतां
१२४