SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ॥ श्री मानतुङ्गसूरिविरचितम् ।। किञ्च - "कल्लाणकोडिजणणी, दुरंतदुरिआरिवग्गनिट्ठवणी । संसारजलहितरणी, इक्कुच्चिय होइ जीवदया ॥२॥" - आर्या इति श्रुत्वा हिंसाविरतिव्रतमग्रहीत् । भक्तामरस्तवमपाठीत्। केशवो धनं विना सर्व जात्यादिकमनर्थं मेने । उक्तं च - "यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः ।। स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति ॥१॥" - उपजातिः ____ अतो धनार्जनचिकिर्देशान्तरमसरत् । मार्गे गच्छन् सार्थाद् भ्रष्टः पञ्चवदनेन रुद्धः स्तवमस्मार्षीत् । सिंहोऽनश्यत्। ततः केनचित् कापालिना विप्रतार्य धनाशया रसकूपिकां प्रवेशितः । योगी तद्दत्तं रसभृतं तुम्बं जग्राह । केशवः सरज्जुरधो मुक्तः कथमपि कूपमेखलायां स्थितः स्तवं सस्मार। चक्रादेव्या पृष्ठे कृत्वा निष्कासितः । निःस्वस्य रत्नाष्टकं वितीर्णम् । सार्थेन साकं व्रजन् कान्तारे समुत्थितां भिल्लधाटी निर्घाटयामास स्तवस्मरणात् । एकाकिने निर्जले वने भ्रमते तृषितायाष्टमनवमवृत्तगुणनप्रान्ते देव्योदकं दत्तम्। एवं सर्वाणि कष्टानि हत्वा पुरं प्राप । उक्तं च - "वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि ॥१॥" - उपजातिः रत्नाष्टकेन श्रीर्जाता। चक्रेश्वरीपार्खाल्लोकचमत्कारकृते एकदिनेन जैनप्रासादं कारयामास । केशवश्चिरं सुखमभुनक्, धर्ममाराधयामास।। ॥ इति चतुर्थी कथा ।।४॥ * * * १. निर्धनस्य । ना १२३ |
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy