SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ॥श्री भक्तामरस्तोत्रम् ॥ स्तवनं-गुणरहस्योत्कीर्तनं आस्तां-तिष्ठतु दूरे। स्तवमहिमा महीयान् वर्तते। त्वत्संकथाऽपि-त्वत्सम्बन्धी संल्लापोऽपि-त्वद्विषयिणी पूर्वभवसम्बद्धनामवार्ताऽपि जगतां-लोकानां दुरितानि-पापानि विघ्नानि वा हन्ति । उक्तं च (वन्दितासूत्रे, गा. ४६) "चिरसंचियपावपणा-सणीइ भवसयसहस्समहणीए । चउवीसजिणविणिग्गय-कहाइ वोलिंतु मे दिअहा ॥शा" - आर्या ___औपम्ये यथा-सहस्रकिरणः-सूर्यो दूरे तिष्ठतु, प्रभैव-अरुणच्छायैव पद्माकरेषु-सरस्सु जलजानि-मुकुलरूपकमलानि विकाशभाञ्जि- स्मेराणि कुरुते। यदा सूर्योदयात् पूर्वप्रवर्तिनी प्रभातप्रभा पद्मविकाशिनी स्यात्, तदा सूर्यस्य किमुच्यते? तथा भगवद्गुणोत्कीर्तनं स्तवनमाहात्म्यं न कश्चिद् वक्तुमलम् । जिननामग्रहणसंकथैव सर्वदुरितनाशिनीतिवृत्तार्थः ।।९।। ___अत्र मन्त्रो यथा - ___ॐ ह्रीं जूं श्रीचक्रेश्वरी (रि?) मम रक्षां कुरु कुरु स्वाहा, सर्वरक्षाकरी भगवती केशववत् । "निराकृत्य हरिं मार्गे, केशवो याति संस्तवात्। पृष्ठे कृत्वा ततो देव्या, रसकूपाद् बहिः कृतः ॥१॥ - अनु० भिल्लधाटीं तृषं क्षिप्त्वा, वने च जलयोगतः । दुरितानि क्षयं जग्मु-श्चकाराह्नि जिनालयम् ॥२॥" - युग्मम् वसन्तपुरे केशवो नाम निर्धनो वणिक् वसति स्म। सोऽन्यदा जैनगुरुदेशनामश्रौषीत् - "धर्मो मङ्गलमुत्तमं नरसुरश्रीभुक्तिमुक्तिप्रदो धर्मः पाति पितेव वत्सलतया मातेव पुष्णाति च । धर्मः सद्गुणसङ्ग्रहे गुरुरिव स्वामीव राज्यप्रदो धर्मः स्निह्यति बन्धुवद् दिशति वा कल्पद्रुवद् वाच्छितम् ॥१॥" शार्दु० ना १२२
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy