________________
॥ श्री मानतुङ्गसूरिविरचितम् ॥
हरं चेति मत्वा-अवबुध्य मया भक्तिपरवशेन तनुधियाऽपि स्वल्पमतिनाऽपि इदं - प्रत्यक्षं भण्यमानं तव संस्तवनं - भवतः स्तोत्रं कर्तुमिति शेषः, आरभ्यते - करणायोद्यम्यते । इदं च स्तवनं मत्कृतमपि तव प्रभावात् - भवतोऽनुभावात् सतां सज्जनानां विदुषां चेतो हरिष्यति - मनो हरिष्यति, न तु दुर्जनानाम् । सन्त एवान्यगुणग्रहणे लम्पटाः । उक्तं च" मनसि वचसि काये पुण्यपीयूषपूर्णा
-
स्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः । परगुणपरमाणून् पर्वतीकृत्य नित्यं
-
निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ? || १||" - मालिनी न तु खलाः । उक्तं च -
"सीसं धुणियं हिययं चमक्कियं पुलइयं च अंगेहिं । तहवि हु खलस्स वाणी, परगुणगहणे न नीसरिआ ।।"
>
:0
ननु निश्चये उदबिन्दुः- वारिच्छटा नलिनीदलेषु - कमलिनीपत्रेषु मुक्ताफलद्युतिं - मौक्तिकच्छायां उपैति उपागच्छति। अत्र 'उदकस्योदः ' (पा. अ. ६, पा. ३, सू. ५७) इति निपातः । अत्र तव प्रभावात् सतां मनोहरं स्तवनमित्युक्ते स्तवस्याऽऽसमाप्तेः कर्तुः श्रोतुरध्येतुश्च श्रेयःसूचनं निर्विघ्नताकथनं च । यदुक्तं च
,
" श्रेयांसि बहुविघ्नानि भवन्ति महतामपि ।
अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनायकाः || १||" - अनु० इति । यथा पद्मिनीपत्रस्थजलबिन्दुर्मुक्ताच्छायां धत्ते तथा तव प्रभावगुणाश्रयणात् स्तवोऽपि विद्वच्चित्तानन्दनं कर्ता । इति वृत्तगर्भार्थः ॥ ८ ॥ ***
अथसर्वज्ञनामग्रहणमेव विघ्नहरमाह - आस्तां तवेत्यादि हे अष्टादशदोषनिर्नाशन ! अस्तसमस्तदोषं निर्मूलितनिखिलदूषणं तव
१२१