________________
॥ श्री भक्तामरस्तोत्रम् ॥
स्थाने च पांसुपूरमक्षिपत् । किमपि नास्फुरद् योगिनः । फालभ्रष्टद्वीपीव विलक्षः स्थितः । उक्तं च
" तावद् गर्जन्ति मातङ्गा, वने मदभरालसाः ।
लीलोल्लालितलाङ्गूलो, यावन्नायाति केसरी ||१||" - अनु० धूलीपा देवीतर्जितः श्रेष्ठिचेष्टितं ज्ञात्वा कथमपि श्रेष्ठिनः चरणे शरणमसरत् श्रेष्ठी राजस्थानमानयत् तम् । ततो धूलीपा विदितसर्वोदन्तः सुधनाद् धर्मं सुश्राव यथा
"हिंसा त्याज्या नरकपदवी सत्यमाभाषणीयं
स्तेयं हेयं सुरतविरति: सर्वसङ्गान्निवृत्तिः ।
जैनो धर्मो यदि न रुचित: पापपङ्कावृतेभ्यः
सर्पिर्दुष्टं किमलमियता यत् प्रमेही न भुङ्क्ते ॥ १||" - स्रग्धरा "देवेषु वीतरागाद्, देवो व्रतिषु व्रती च निर्ग्रन्थात् |
धर्मश्च क्षान्तिकृपा- धर्मादस्त्युत्तमो नान्यः ॥ २ ॥ " - आर्या इति धर्मं श्रुत्वा सम्यक् सम्यक्त्वधरोऽभूत्, श्रेष्ठिनं च गुरुमिव मेने । देव्या धूलिरुपशमिता । सूर्यांशुसदृशं जिनशासनप्रतापं व्यतिस्तरत् (?) सुधनः । देवाधिदेवं दृष्ट्वा तुष्टाव धूलीपाः ।
-
जिनेन्द्रचन्द्रप्रणिपातलालसं
मया शिरोऽन्यस्य न नाम नम्यते ।
गजेन्द्रगल्लस्थलपानलम्पटं
" वंशस्थम्
शुनीमुखे नालिकुलं निलीयते ॥ १ ॥
इति सर्वोऽपि जनो भक्तामरस्तवमध्यगीष्ट, गरिष्ठगरिममन्दिरं श्रेष्ठी जातः ।। ॥ इति तृतीय कथा ।।
***
-
स्तवारम्भसामर्थ्यं दृढयन्नाह - मत्वेत्यादि
हे विश्वविघ्नप्रमाथ ! नाथ ! पूर्वोक्तयुक्त्या स्तवकरणं दुष्करं सर्वपाप
१२०