SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ॥श्री मानतुङ्गसूरिविरचितम् ।। कलिकानां निकरः चारुचूतकलिकानिकरः, एकश्चासौ हेतुश्च एकहेतुः, चारुचूतकलिकानिकर एव एकहेतुः चारुचूतकलिकानिकरैकहेतुः, समासश्चान्वये नाम्नाम्' (सा. सू. ४६६) इति समासः। यदित्यत्र द्वितीयैकवचनं, वाक्यार्थमात्रवाचित्वे तु प्रथमाऽपि सम्भवति, तच्छब्दाग्रे चूतस्य पूर्वोक्तपरामर्शित्वेन प्रथमा, व्याख्यानान्तरेण सप्तम्यपीति, यत्तच्छब्दावव्ययावनव्ययौ च वर्तेते इति श्रीविजयसेनसूरिप्रश्नोत्तरग्रंथे। विरौतीत्यत्र 'रु शब्दे' धातुः 'युतुरुस्तुभ्य ईर्वा उर्वा' विरौति विरवीति इति रुपद्वयम्।। इति षष्ठकाव्यार्थः।।६।। અર્થ વિદ્વાનોના હાયસ્થાન અને અલ્પદ્યુતવાળા મને બળાત્કારે તમારી ભક્તિ જ વાચાળ કરે છે, ખરેખર વસંતઋતુમાં કોયલ જે મધુર ટહુકાર કરે છે તેમાં સુંદર આંબાના મોર નો સમૂહ જ એક કારણભૂત છે ! अथ प्रवृत्तिहेतुमाख्याय सर्वजनदिव्यताहेतुमाह - त्वत्संस्तवेन भवसन्ततिसन्निबद्धं पापं क्षणात् क्षयमुपैति शरीरभाजाम्। आक्रान्तलोकमलिनीलमशेषमाशु सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥७॥ दण्डान्वयः- शरीरभाजाम् भवसंततिसन्निबद्धम् पापम् त्वत्संस्तवेन क्षणात् क्षयम् उपैति इव आक्रान्तलोकम् अलिनीलम् शार्वरम् अशेषम् अन्धकारम् सूर्यांशुभिन्नम् आशु (क्षयम् उपैति)। हे मुनीश ! त्वत्संस्तवेन पापं क्षणात् क्षयं उपैति इत्यन्वयः। 'उपैति' इति क्रियापदम्। किं कर्तृ? ‘पापं' कल्मषम्। कं कर्मतापन्नम्? 'क्षयं' प्रलयं विनाशमितियावत्। केषाम्? 'शरीरभाजां' प्राणिनाम्। कस्मात्? 'क्षणात्' घटिकाषष्ठांशात्। केन? 'त्वत्संस्तवेन'। करणे तृतीया। किंवि पापम्? 'भव(सन्तति) सन्निबद्धं' जन्मश्रेणिसञ्चितम्। अतिबहुलमित्यर्थः। ना १२ |
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy