________________
॥श्री मानतुङ्गसूरिविरचितम् ॥
याचा
इति वृत्तभावार्थः ॥७॥ अत्र मन्त्रोऽपि यथा -
ॐ ह्रां ह्रीं हूं ऋषभशान्तिधृतिकीर्तिकान्तिबुद्धिलक्ष्मीह्रीं अप्रतिचक्रे ! फंट विचक्राय (2) स्वाहा। शान्त्युपशान्तिसर्वकार्यकरी भव देवि ! अपराजिते ! ॐ ठः ठः । राजकुले विवादे कटकादिषु स्मर्यते । एतन्माहात्म्ये सुधनोदाहरणम् -
"दिवाऽपि तमसाऽऽकीर्णाः, श्रेष्ठिभूपजिनालयाः ।
धूलीपावैष्णवावासौ, रजोव्याप्तौ स्तवस्मृतेः ॥१॥" - अनु० ___पाटलीपुरे पत्तने परमजैनः सुवासनः सधनः सुधननामा श्रेष्ठी बभूव।
स स्वकारितप्रासादे श्रीआदिदेवस्यार्चामानर्च। तत्सम्पर्काद् राजा भीमः श्रावकोऽभूत् । उक्तं च (नीतिशतके श्लो० १९)
"जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्ति सत्सङ्गतिः कथय किं न करोति पुंसाम्?॥१॥" -- वसन्त० अन्यदा तत्र पुरोद्याने वैष्णवो धूलीपा नाम योगी आगात् । स च सिद्धक्षुद्रचेटकः सेवकीकृतपाषण्डिपेटकः पाटलीपुरीयं सर्वजनमाचकर्ष निजकलया । ततोऽसौ चित्ते जहर्ष कञ्चन जनं पप्रच्छ च मत्सेवनाय को नायाति नागरः ? सोऽवदत् - श्वेताम्बरदर्शनभक्तिदृढौ राजश्रेष्ठिनौ नायाताम्। धूलीपाश्चेटकशक्त्या जिनराजश्रेष्ठिगृहेषु धूलीवृष्टिमकरोत्। प्रातः श्रेष्ठी पांसुपङ्क्तिपातेन प्रसृतं तमो दृष्ट्वा भक्तामरस्तवसप्तमवृत्तगुणनावसरे प्रकटीचक्रे चक्रेश्वरीम्। सा चार्हच्छासनप्रभावनाचिकीः सुधनवचसा जिनभूपश्रेष्ठिगृहगतां धूलिं निरस्य वैष्णवमन्दिरे धूलीपा
ना ११९ |
-