________________
॥श्री भक्तामरस्तोत्रम् ॥
-
इत्यर्थः। औद्धत्ये तु यथाऽऽम्रमञ्जरीकृतभोजनः पुंस्कोकिलो मधुरस्वरो भुवि मनोहरः स्यात् । उक्तं च - "उत्कूजन्तु वटे वटे बत बकाः काका वराका अपि
क्रां कुर्वन्तु सदा निनादपटवस्ते पिप्पले पिप्पले । सोऽन्यः कोऽपि रसालपल्लवनवग्रासोल्लसत्याटवः __ क्रीडत्कोकिलकण्ठकूजनकलालीलाविलासक्रमः ॥१॥" - शार्दूल०
तथाऽहं स्तोकग्रन्थोऽपि त्वदुक्त्या स्तवं कुर्वाणः प्रवीणश्रेणौ लब्धवर्णो भावीति वृत्तभावार्थः ॥६।।
* * * हेतुमुक्त्वा स्तवकरणे यो गुणस्तमाह - त्वत्संस्तवेनेत्यादि
हे सकलपातकनाशन ! जिन ! त्वत्संस्तवेन-भवद्गुणोत्कीर्तनेन शरीरभाजां-प्राणिनां भवसन्ततिसन्निबद्धं-जन्मकोटिसमर्जितं पापम्-अष्टविधं कर्म क्षणाद् घटिकाषष्ठांशेन स्तोककालाद् वा क्षयमुपैति-नाशमुपयाति । भगवत्स्वरूपध्यानाद् देहिनां साम्यं भवति । साम्यादुक्तपापक्षयो युक्तः । उक्तं च -
"प्रणिहन्ति क्षणार्धेन, साम्यमालम्ब्य कर्म तत् ।
यन्न हन्यान्नरस्तीव्र - तपसा जन्मकोटिभिः ॥१॥" - अनु० ___ अमुमेवार्थमुपमिमीते-पापं किमिव? अन्धकारमिव। यथा शार्वरंकृष्णपक्षरात्रि तिमिरं सूर्यांशुभिन्नं - सहस्रकररोचिर्विदारितं आशु-शीघ्रं क्षयं गच्छति यतः। किंभूतमन्धकारम्? आक्रान्तलोकं-व्याप्तविश्वं अलिनीलं-मधुकरकुलकृष्णं अशेष-सकलं न तु स्तोकम् । पापविशेषणान्यप्यौचित्येन कार्याणि । यथा दुरितक्षयहेतुर्जिनस्तवः, तथा तिमिरनाशहेतुः सूर्योदय इति । उक्तं च -
" रवेरेवोदयः श्लाघ्यः, किमन्यैरुदयान्तरैः ।। न तमांसि न तेजांसि, यस्मिन्नभ्युदिते सति ॥१॥" - अनु०
का
११८ |