________________
॥ श्री मानतुङ्गसूरिविरचितम् ।।
अत्रोपमानम्-मृगो-हरिण आत्मवीर्यं-निजबलम् अविचार्य-अविचिन्त्य निजशिशोः-स्वीयबालस्य प्रीत्या-प्रेम्णा परिपालनार्थ-परिरक्षणाय मृगेन्द्र-सिंह किं नाभ्येति-किं न युद्धायाभिमुखो व्रजति? अपितु व्रजत्येव । अनौद्धत्ये यथा मृगः सिंहाभिगमे भग्नविक्रमो हास्यास्पदं तथाऽहं त्वत्स्तोत्रकरणे इति। औद्धत्ये तु यथा कुरङ्गो मृगेन्द्राभिमुखोत्थाने अबलोऽप स्वबालपालनाय व्रजन् श्लाघां लभते । केसरिणस्तु मृगेण सह युद्धं लज्जायै। उक्तं च -
"मृगारिं वा मृगेन्द्रं वा, सिंहं व्याहरतां जनः । तस्य द्वयमपि वीडा, क्रीडादलितदन्तिनः ॥१॥" -- अनु. तथापि मतिमन्दोऽहं त्वद्भक्तिपारवश्यात् स्तवनप्रवृतौ कृतयत्नः कृतिनां कीर्तिपात्रं भवितेति वृत्तगर्भार्थः ।।५।।
* * * अथ कविरसामर्थ्येऽपि वाचाटताहेतुमाह - अल्पश्रुतमित्यादि हे विश्वविश्रुत ! श्रुतधरवरिवसितचरण ! त्वद्भक्तिरेव - त्वच्छुश्रूषैव बलात् हठादतिशयात् मां-मानतुङ्गाचार्यं मुखरीकुरुते-अबद्धमुखीकरोति, वाचालं विधत्ते इत्यर्थः। मां किंभूतम्? अल्पानि-स्तोकानि श्रुतानिशास्त्राणि यस्येति विग्रहस्तम्। अथाल्पशब्दोऽभाववाची । अल्पश्रुतमश्रुतमित्यनौद्धत्यम्। (ग्रन्थाग्रं २००) अत एव श्रुतवतां - दृष्टशास्त्राणां विदुषां परिहासधाम - हास्यास्पदम् । अत्र दृष्टान्तदृढता - किलेति सत्ये। यत् कोकिलः - कलकण्ठो मधौ-वसन्ते मधुरं - मृदुकण्ठं विरौति - कूजति तदहं मन्ये चारुचूतकलिकानिकरैकहेतुरस्ति। चार्व्यश्च ताः सकषायरसाश्चुतकलिकाः - सहकारस्य विकस्वरमञ्जर्यश्च (चारुचूतकलिकाः), चारूचूतकलिकानां निकरः-समूहः स चासौ एकहेतुश्चेति कर्मधारयः। तिक्तसुरभिसहकारस्मेरमञ्जरीपुञ्ज एव एकः कारणं विद्यते
का ११७ |