________________
।। श्री भक्तामरस्तोत्रम् ॥
दुःश्रवं स्तनयित्नुस्तनितं निर्घातपातसममभूत् । पीतमद्या इव सागरोर्मिष्वितस्ततश्चरन्तस्तिमि - तिमिङ्गिलपाठिनपीठनक्रचक्रमकरकूर्मशिशुमारादिदुष्टजलचरजन्तुवाराश्शुक्षुभुः । तलगता अपि वालुकाकणाः कर्ममुक्ता इवोर्ध्वं जग्मुः । जगज्जिग्रसिषुराक्षस इवोन्मुमूर्च्छार्मिमाला । धाटीक्षुभिता इव सांयात्रिकाः कान्दिशीकाः कोलाहलं चक्रुः स्वाभीष्टदेवान् सस्मरुश्च । नाङ्गरः सागरोपर्यतिष्ठन् दुर्जन इव क्वापि स्थितिं न लेभे । सितपटः पोतवणिग्मनोरथवत् खण्डशोऽभूत् । कृतघ्नस्नेहा इव सज्जा अपि रज्जवस्तुत्रुटुः। सुवंशा अपि पोतविध्वंसरक्षणेऽक्षमा अभूवन् । तत्र क्षणे केऽपि मुनय इव कर्मग्रन्थिमिव कूपकस्तम्भं चिच्छिदुः । केऽपि कान्ताङ्गमिव फलकं कराभ्यां गाढं जगृहु: । केऽपि गुरुवाक्यमिव साररत्नादि हन्मध्ये दधुः । अत्रान्तरे भूतार्त इव कालज्वरार्त इव पापीव पोत इतस्ततो भ्रान्त्वा भग्न उपकार इव कृतघ्ने । सर्वोऽपि वस्तुस्तोमोऽम्भोधिमध्ये मग्नः सुमतिस्तुर्यं वृत्तं स्मरन् चक्रेश्वर्यनुभावाद् बाहुभ्यां तटिनीशं तरंस्तटे लग्नः । प्रत्यक्षीभूय देवी तस्मै पञ्चाक्षसमं रत्नपञ्चकं ददौ, नगरमानीतश्च राजमान्यो वदान्यो धन्यो धर्मी धनं विललास, काशप्रकाशयशाः सुमतिर्दृष्टधर्मातिशयः परमश्रावकोऽभूत् ॥ ४ ॥
॥ इति द्वितीया कथा ॥२॥ * * *
अथ स्तवकरणप्रवृत्तौ कारणमाह - सोऽहमित्यादि
हे मुनीश ! - सकलयोगीश ! तथापि तव स्तोत्रकरणासामर्थ्ये सत्यपि सोऽहं क्षीरकण्ठकुण्ठप्रज्ञोऽपि स्तवारम्भे विगतशक्तिरपि-क्षीणबलोऽपि । डमरुकमणिन्यायेनोभयत्रापि तव प्रयोगः । तव भवतो भक्तिवशात्सेवाग्रहात् तव स्तवं - स्तुतिं कर्तुं विधातुं प्रवृत्तः - कृतोद्यमो जातः ।
१. मेघनादम् ।
११६