________________
॥श्री मानतुङ्गसूरिविरचितम् ।।
प्रभावे कथा यथा -
वार्धिर्बाहुफलकेन, तीर्णश्चक्राप्रसादतः। पुराऽभूत् सुमतिः श्रीमान्, स्तवचिन्तामणिस्मृतेः ॥१॥ - अनु. पुरोज्जयिन्यां पुरि दारिद्र्यवसतिर्भद्रकप्रकृतिः सुमतिर्वणिगभूत् । स च कञ्चन जैनमुनिमवन्दत । तस्याग्रे मुनिर्देशनामित्थमकृत -
"धणओ धणत्थियाणं, कामत्थीणं च सव्वकामकरो ।
सग्गापवग्गसङ्गम-हेऊ जिणदेसिओ धम्मो ॥१॥" -- आर्या किञ्च - "धम्म विहूणउ न सुक्ख वियाणहिं परघरि पाणिउ इंधणु आणहिं। खण्डहिं दलहिं करहिं विलोडणु तहवि न पावहिं किंचिवि भोयणु ॥२॥ अधमजातिरनिष्टसमागमः प्रियवियोगभयानि दरिद्रता । अपयशोऽखिललोकपराभवो भवति पापतरोः फलमीदृशम् ॥३॥
- द्रुतविलम्बितम् तं पुन्नह अहिनाणु जं गहिलाणवि रिद्धडी। तं पुणु पावह माणु जं गुणवंतह भिक्खडी ॥४॥" अहो ! श्वेताम्बरमहर्षिणा मदुचितो धर्मोपदेशो दत्त इति मत्वा मुनिवचः श्रुत्वा जिनधर्मं प्रपन्नो धनार्थी भक्तामरस्तवमध्यैष्ट। भक्त्यवन्ध्यं त्रिसन्ध्यं शश्वज्जपति स्म । एकदा - " अत्यविहूणो पुरिसो, सुवंसजाओवि लहइ लहुअत्तं ।
पावइ परिभवठाणं, गुणरहिओ धणुहदंडुव्व ॥१॥" - आर्या ___ इति विमृश्य सुमतिर्धनार्जनचिकीः समुद्रतटपुरं गत्वा पोतमारुरोह । क्रमेण बोहित्थेऽम्बुधिमध्यगे कल्पान्तवाता इव दुर्वाता ववुः। पूर्व कादम्बिनीतिमिरपटली प्रबलदावानलधूमावलीव नभोमण्डलमरौत्सीत् । राक्षसीनेत्रकान्तकीलेव विद्युल्लता घनमध्ये नामांसीत् । नाविकजनश्रवो
का ११५ |