________________
॥श्री भक्तामरस्तोत्रम् ॥
प्रज्ञया विनाऽप्यह-मानतुङ्गाचार्यः स्तोतुं समुद्यतमतिः-स्तवाय कृतमतिव्यापारो वर्ते, अत एव विगतत्रपः - अशक्यवस्तुनि प्रवर्तनान्निर्लज्जः। दृष्टान्तमाह-बालं - शिशुं विहाय-मुक्त्वा कोऽन्यः - अपरो जनः सचेतनो जलसंस्थितं - नीरकुण्डमध्यप्रतिबिम्बितमिन्दुबिम्बं-चन्द्रमण्डलं ग्रहीतुंलातुं सहसा-तत्कालमिच्छति-अभिलषति?। बालस्तद्ग्रहणाग्रहपहिलो भवति, नापरः, अहमपि बालरूपो ज्ञेय इति। औद्धत्ये त्वहं तादृशमतिशक्तिविकलो दुष्करकवित्वधुरोद्धरणाङ्गीकरणनिर्वहणात् प्राज्ञधुरन्धरेषु प्राधान्यं प्राप्स्यामीति, यतस्तद्विदः- कवित्वश्रमविदः । उक्तं च -
"विद्वानेव हि जानाति, विद्वज्जनपरिश्रमम् । न हि वन्ध्या विजानाति, गुरू प्रसववेदनाम् ।।१॥" -- अनु. इत्याशयः ।।३।।
* * * अथ जिनेन्द्रस्तुतावन्येषां दुष्करतां दर्शयन्नाह - वक्तुमित्यादि हे गुणसमुद्र ! - स्थैर्यगाम्भीर्यधैर्यादि गुणरत्नरत्नाकर! को बुधस्ते - तव शशाङ्ककान्तान् - निर्मलकलाभृत्कमनीयान् शान्ततादीन् गुणान् वक्तुं-जल्पितुं क्षमः-समर्थः ? किंभूतोऽपि ? बुद्ध्या-प्रतिभया सुरगुरुप्रतिमोऽपि - वाचस्पतिसमोऽपि। अत्र दृष्टान्तः - वा उपमितौ । कस्तरणकलाकुशलो नरो भुजाभ्यां - बाहुभ्यामम्बुनिधि - सागरं तरीतुं - पारं प्राप्तुमलं-शक्तः? अपितु न कश्चिदित्यर्थः। किंभूतमम्बुनिधिम्? कल्पान्तकालस्य पवनेनोद्धतानि-अविनीतानि दुर्दर्शानि उद्धृतान्यूज़ चलितानि वा नक्रचक्राणियादोवृन्दानि यत्रेति समासः । प्रलयमरुत्प्रेरितदुष्टजन्तुजातमित्यर्थः । यथा युगान्तश्रुब्धाब्धितरणं दुःशकं तथाऽर्हत्कीर्तनं गीर्पतेरपि दुर्घटम्, तत्राहं प्रवृत्तः समर्थ इवाभास्यामि विद्वज्जने, इत्यौद्धत्यम् ।। अत्रापि मन्त्रः प्राक् कथित एव ।।
ना ११४ |