________________
॥श्री मानतुङ्गसूरिविरचितम् ।।
वर्णमात्राशुद्धं भक्तामरस्तवमधीयानो जपति च । आकारितः कौतुकिना काश्यपीकान्तेन । आयातो हेमः, प्रणतो भोजः । नृपेणोक्तः - स्मरसि स्तवम्?। तेनोचे-बाढं स्मरामि। (भूपो जगौ -) तर्हि त्वया स्तवप्रभावादन्धावटान्निःसरणीयम्। नागपाशैर्बद्ध्वा क्षिप्तो हेमोऽन्धकूपे, प्राहरिकाः स्थापिताः, दिनत्रयं चावधीकृतम् । प्रथमेऽहनि रजनीप्रथमयामे प्रथमजिनस्तवनप्रथमवृत्तद्वयजपनात् प्रत्यक्षीभूतया चक्रेश्वर्याऽन्धकूपान्तरालमुद्द्योत्योक्तो हेमः - वत्स ! प्रातर्भूपपुरस्त्वां नेष्यामि, जपितस्तवाद्यपद्यद्वयाद् राजा मत्कृतनागपाशेभ्यो मोचनीयः पानीयच्छटया । ततो देव्या नागपाशैर्बद्धो भूपो यथा शयनीयादप्युत्थातुं न शशाक । अथ नभः - स्थयाऽप्रतिचक्रयोचे-रे रे दुष्ट ! हेमं समानय यथा तद्भणितस्तवमन्त्राभिमन्त्रितजलच्छटया त्रुटन्ति तव बन्धनानि। भूभुजोक्तम् - भो सेवकाः ! शीघ्रं कूपान्निष्कासनीयो हेमः, निर्बन्धनोऽत्रानेतव्यश्च भवद्भिः । यावतेत्यलपद् भूपस्तावद् देवीप्रभावात् तत्रोर्ध्वस्थो दृष्टो हेमः, विस्मितः सपरिकरो नृपवरः, प्रथमवृत्तद्वयजपिताम्भःसेकात् सज्जीकृतश्च । तर्जितो देव्या नृदेवः - किं पुनः सर्वसुरार्चितस्य श्रीऋषभस्य स्तोत्रप्रभावं पश्यसि ?। एतदज्ञानचेष्टितं सह्यं ममेति जजल्प निर्विकल्पः प्रभुर्भुवः, (अप्रति)- चक्राचरणयोरपतच्च । तिरोऽधाद् देवी । (राज्ञा) बन्धुवन्मानितो हेमः स्वासनमारोपितश्च, स्तवचिन्तामणिर्हदि रक्षामणिः कृतः । परमजैनो जातो राजा, (जिनशासनस्य) महती प्रभावना प्रससार, सर्वत्र परमानन्दश्चाजनि ।।
।। इति हेमकथा प्रथमा ।।१।।
* * * अथ कविरात्मौद्धत्यं परिजिहीर्षुराह - बुद्ध्येत्यादि . हे विबुधार्चितपादपीठ ! - हे दैवतव्रातपूजितपदासन ! जिन! बुद्ध्या
का ११३ |
-