________________
॥श्री भक्तामरस्तोत्रम् ।।
जीवः। देवैर्महिमा चक्रे, क्षीराब्धौ क्षिप्तं वपुः। भरतः पितामहीवियोगभगवद्दर्शनाभ्यां शोकानन्दयुक् (ग्रन्थाग्रं १००) पञ्चविधाभिगमेन जिनं नत्वोपाविशत् सदसि। "अपारे संसारे कथमपि समासाद्य नृभवं
न धर्मं यः कुर्याद् विषयसुखतृष्णातरलितः । बुडन् पारावारे प्रवरमपहाय प्रवहणं स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ॥॥" - शिखरिणी
- सिन्दूरप्रकरे, श्लो. ७ इत्यादि भगवद्धर्मदेशनां श्रुत्वा ऋषभसेनादयः साधवः, ब्राह्मयाद्याः साध्व्यः, भरतप्रमुखा उपासकाः, सुन्दरी-सुभद्राप्रभृतयः श्रमणोपासिका, सुराः सम्यक्त्वधरा अभवन् । ततस्तीर्थं प्रववृते । भरतवर्षे सिद्धिपन्थोद्घाटितः प्रभुणा, अतो युगादावालम्बनं जिनेश्वरः ।।
अत्र मन्त्राम्नायो यथा - ___ॐ नमो वृषभनाथाय, मृत्युञ्जयाय, सर्वजीवशरणाय, परमपुरुषाय,
चतुर्वेदाननाय, अष्टादशदोषरहिताय, अजरामराय, सर्वज्ञाय, सर्वदशिने, सर्वदेवाय, अष्टमहाप्रातिहार्यचतुस्रिंशदतिशयसहिताय, श्रीसमवसरणे द्वादशपर्षद्वेष्टिताय, दानसमर्थाय, ग्रह-नाग-भूतयक्ष-राक्षस-शङ्कराय, सर्वशान्तिकराय। मम शिवं कुरु कुरु स्वाहा । इति मन्त्रजापाद् विपत्प्रलयो हेमवत् ।। ___ एकदा जैनमतद्वेषिभिर्द्विजैर्भोजराजस्य पुरोऽजल्पि-नरेश्वर ! यद्यपरः
कोऽपि स्तवमाहात्म्यं दर्शयति तदा सत्यः स्तवप्रभावः, श्रीमानतुङ्गाचार्यैस्तदा कयाचिन्मन्त्रशक्त्या देवतासान्निध्येनौषधीबलेन वा निगडभञ्जनं विदधे, इति श्रुत्वा पृष्टाः पार्षद्याः पृथ्वीपालेन - अस्ति स्तोत्रस्मर्ता कश्चिन्नरः?। एकेनोक्तं-स्वामिन् ! वर्तते हेमश्रेष्ठी यो
ना
११२