________________
॥ श्री मानतुङ्गसूरिविरचितम् ॥
पटुभिः - कुशलैः । स्तोत्रैः किम्भूतैः ? जगतां भूर्भुवः (स्वः) स्वरूपाणां त्रितयं, तस्य चित्तं हरन्तीति ते तथा तैः उदारैः महार्थेः ॥
अत्राद्यवृत्तेऽतिशया यथा - उद्द्योतकमिति 'पूजातिशयः', दलितपापतमोवितानमिति 'अपायापगमातिशयः', आलम्बनमिति 'ज्ञानवच - नातिशयौ', यतो ज्ञानी सद्वाक्यश्च जनाधारो भवति ॥
अत्र चाम्नायः श्री ऋषभस्वामी वर्षसहस्रं विहृत्य विनीतायाः शाखापुरे पुरिमतालाख्ये शकटमुखोद्याने न्यग्रोधतरोरधः केवलभागभूत्, यमकेन भरतो वर्धितः, तदैव शस्त्रशालायां चक्रप्रादुर्भावात् शमकेनापि, समकं द्वयोर्मुखाद् वर्धापनमाकर्ण्य क्षणं विमृश्य पितामह्या सह गजेन्द्रारूढो (भरतः) सर्वगुणं तातं वन्दितुमगात्। मरुदेवी देवदुन्दुभिं जयजयारवं च श्रुत्वा भरतमाह स्म वत्स ! कोऽयं कोलाहलः ? । भरतोऽवदत् वृद्धमातः! त्वत्पुत्रपुण्याकृष्टानां सुराणां जयजयक्वणो दुन्दुभिध्वनिः प्रभुदिव्यध्वनिश्व वर्तते। तस्या अमन्दानन्दाश्रुजलं गलितं, नीलपटलमक्ष्णोर्गतम् । प्राकारच्छत्रत्रयचैत्यद्रुमेन्द्रध्वजादिविभूतिं पश्यन्ती चेतसीत्यचिन्तयत् स्वामिनी-धिङ् मोहविह्वलान् प्राणिनः, स्वार्थे स्निह्यन्ति जन्तवः, मोहः क्लेशहेतुर्मयाऽनुभूतः। अहमहरहः १ शीतातपवर्षापीडासहमनुपानहं निर्यानं निरशनं निर्वसनं गिरिकन्दरादिष्वटन्तं मत्सुतं संमान्यानयेति भरतं भणामि, शोकदुःखेन दृशौ गते, एष एवंविधामृद्धिं प्राप्तो मन्नामापि न पृच्छति, मद्दुःखं च न वेत्ति, स्वास्थ्यहेतुं सन्देशमात्रं न दत्ते, अहो वीतरागत्वमस्य ! नीरागे कः प्रतिबन्धः ? समस्तवस्तुषु निर्ममतां गता भगवती, दध्यौ च -
-
-
यत्रैवाहमुदासे, तत्र मुदाऽऽसे स्वभावसन्तुष्टः ।
यत्र च वस्तुनि ममता, मम तापस्तत्र तत्रैव ॥१॥ - आर्या इति, क्षीणमोहा ध्वस्तसमस्तकर्मा अन्तकृत्केवली सिद्धो मरुदेवी१ प्रतिदिनम् ।
१११