________________
॥श्री भक्तामरस्तोत्रम् ।।
अथ स्तवार्थ उच्यते, यथा -
सम्यग् जिनपादयुगं प्रणम्य किल अहमपि तं प्रथमं जिनेन्द्रं स्तोष्ये इति सम्बन्धः । जिनस्य-प्रथमतीर्थकृतः पादौ-चरणौ तयोर्युग-युग्मं जिनपादयुगं, सम्यक्-त्रिकरणशुद्ध्या नत्वा । किम्भूतम्? भक्ताः -परिचर्यायुक्ता येऽमरा - देवास्तेषां नमस्कारवशात् प्रणता-नम्रा ये मौलयो मुकुटानि शिरांसि वा तेषु तेषां वा ये मणयः - चन्द्रकान्तादयस्तेषां प्रभारुचयस्तासां भक्तामरप्रणतमौलिमणिप्रभाणां, उद्द्योतयतीत्यद्योतकं प्रकाशकं तत्; दलितं-क्षिप्तं पापमेव तमोवितानं-ध्वान्तजालं येन तत्; ऋजुजडनराणां शिल्प-नीति-लिपि-कलादर्शनात् च चतुः-पुरुषार्थप्रकटनात् (चतुष्षष्टिमहिलागुणदर्शनात्) द्विविधधर्मप्रकाशनाद् वा भगवता सुषमदुष्षमाप्रान्तेऽपि युगादिः कालः कृतः, अतो युगादौ, भवो-जन्मजरामरणरूपः संसारः, स एव जलं, तत्र भवजले पततां -मज्जतां जनानांभव्यसत्त्वानामालम्बनम्-आधारः सदुपदेशात्। अथ सामान्यजिनपादयुगं प्रणम्य युगादौ प्रथमसमवसरणे तीर्थप्रवर्तनाद् यथा जले पततां द्वीपं यानपात्रं वाऽऽलम्बनं तथा भवे निमज्जतां जिनपादारविन्दमेवाधारः । किलेत्यव्ययं सत्यागममङ्गलार्थवाचि। अहमपि-मानतुङ्गाचार्योऽज्ञोऽपि अनौद्धत्ये सुरेन्द्राद्यपेक्षया जडधीः, नान्येषामपेक्षयेति हृदयम्, स्तोष्ये-गुणोद्भासनेन कीर्तयिष्यामि, तं प्रथम-श्रीनाभेयं जिनेन्द्रं - जिनप्रभुम्। अथ प्रथमं प्रसिद्ध आदौ वा सामान्यतीर्थकरम् । यत्तदोर्नित्याभिसम्बन्धाद् यो भगवान् स्तोत्रैः- शक्रस्तवाद्यैः सुष्टु राजन्ते इति सुरास्तेषां लोको-जगत्स्वर्गस्तस्य नाथैः-प्रभभिः सरलोकनाथैः संस्ततः-सम्यग नतः। अथवा सुरश्चासौ लोकश्च सुरलोको-देवसमूहस्तस्य नाथैः- इन्द्रैः । किम्भूतैस्तैः? सकलं-सम्पूर्णं यद् वाङ्मयं - शास्त्रजातं तस्य तत्त्वं - रहस्यं तस्य बोधाद्-ज्ञानात् - परिच्छेदाद् उद्भूता-उत्पन्ना या बुद्धिः-प्रज्ञा तया
ना ११० जा