________________
॥ श्री भक्तामरस्तोत्रम् ॥
दण्डान्वयः - श्रुतवताम् परिहासधाम अल्पश्रुतम् माम् बलात् त्वद्भक्तिः एव मुखरीकुरुते किल मधौ कोकिलः यत् मधुरं विरौति तत् चारुचूतकलिकानिकरैकहेतुः।
हे मुनीश ! मां त्वद्भक्तिरेव मुखरीकुरुते इत्यन्वयः। 'मुखरीकुरुते' इति क्रियापदम्। वाचालं कुरुते इत्यर्थः। का की? 'त्वद्भक्तिः' तवानुरागः कं कर्मतापन्नम्? 'माम्'। कस्मात् ? 'बलात्' हठात्। कथंभूतं माम्? 'अल्पश्रुतं' न बहुशास्त्रज्ञम्। पुनः किंवि० माम्? 'श्रुतवतां' शास्त्रज्ञानां ‘परिहासधाम' हास्यस्थानम्। उक्तार्थे युक्तिमाह- 'किल' इति सत्ये।
कोकिलः यत् मधौ मधुरं विरौति इत्यन्वयः। ‘विरौति' इति क्रियापदम्। जल्पतीत्यर्थः। कः कर्ता? 'कोकिलः' पिकः। किं कर्मतापन्नम्? 'यत्'। 'मधुरं' प्रियम्। कस्मिन्? ‘मधौ'वसन्ते। यत्तदोर्नित्याभिसम्बन्धात् तदिति । _ 'तत्र चारुचूतकलिकानिकरैकहेतुः', 'भवति' इति शेषः। 'भवति' इति क्रियापदम्। कः कर्ता? 'चारुचूतकलिकानिकरैकहेतुः' मनोहर आम्रमञ्जरीसमूह एव एकः- अद्वितीयो हेतुः-कारणमित्यर्थः। आममञ्जरीकवलीकरणेनैव तत्कूजने माधुर्यं भवति इति भावः। तथापि (थैव) ममापि स्तवनप्रवृत्तौ मुख्यो हेतुस्त्वद्भक्तिरेवेति हृदयम्।।
अथ समासा :- अल्पं श्रुतं यस्य स तम्। प्रशस्तं बहु श्रुतं येषां ते श्रुतवन्तस्तेषाम्, 'भूम्नि प्रशंसायां वा मतुप्'। यदुक्तं (श्रीकात्यायनवार्तिकपाठे ३१८३)
"भूमनिन्दाप्रशंसासु, नित्ययोगेऽतिशायने ।
संसर्गेऽस्ति विवक्षायां, प्रायो मत्वादयो मताः ॥११॥" - अनु० श्रुतं विद्यते येषां ते श्रुतवन्तः, तेषाम्। परिहसनं-परिहासः, परिहासस्य धाम परिहासधाम तत्पुरुषः। तव भक्तिस्त्वद्भक्तिः । एवेति निश्चये। मुखं-वाग् अस्यास्तीति मुखरः, 'मध्वादिभ्यो रः' (सिद्ध. अ. ७, पा. २, सू. २६) इति हैमवचनात् अस्त्यर्थे रप्रत्ययः, अमुखरं मुखरं कुरुते इति मुखरीकुरुते, च्चिप्रत्ययः। चारुश्चासौ चूतश्च चारुचूतः चारुचूतस्य कलिकाः चारुचूतकलिकाः, चारुचूत
मा ११ |