________________
॥ श्री मानतुङ्गसूरिविरचितम् ।।
मा भाङ्क्षीविभ्रमं भूरधरविधूरता केयमस्यास्यरागं
प्राणे प्राण्येव नायं कलयसि कलहश्रद्धया किं त्रिशूलम् ? इत्युद्यत्कोपकेतून् प्रकृतिमवयवान् प्रापयन्त्येव देव्या
न्यस्तो वो मूर्ध्नि मुष्यान्मरुदसुहृदसून संहरन्नहिरहः ॥१॥ इत्यादिकाव्यशतेन चण्डिकां नुनाव । आद्यवृत्तस्य षष्ठे वर्णे साक्षाद्भूता चण्डी तच्चतुरङ्गानि पुनर्नवीचकार । ततस्तस्यापि महती पूजा राज्ञा चक्रे । तयोर्महिमानं महीयांसमालोक्य किं शिवदर्शनं विनाऽन्यत्राप्येतादृक्षसप्रभावकवित्वशक्तिकलितः कोऽप्यस्ति? इति पार्षद्यानपृच्छत् श्रीभोजः। राजमन्त्री श्रावकोऽवक्- देव ! शान्तिस्तवविधातृश्रीमानदेवाचार्यपट्टमुकुटाभयहरभत्तिभरस्तवादिकरणप्रकटाः श्रीमानतुङ्गसूरयः श्वेताम्बराः सन्ति । आनायिता नृपेण, प्राप्ताः पर्षदं, राजदत्तासनासीनाः -
जटाशाली गणेशार्थ्यः, शङ्करः शाङ्कराङ्कितः ।
युगादीशः श्रियं कुर्याद्, विलसत्सर्वमङ्गलः ॥१॥ इत्याशिषं प्रोचुः, पृष्टाश्च काञ्चन कवित्वकलां वित्थेति । ते ऊचुः - महाराज ! यदि निगडबद्धमात्मानं मोचयित्वा निस्सरामि तदा कोऽप्यादिदेवप्रभावो ज्ञेयः। ततो राज्ञा लोहभारशृङ्खलनद्धसर्वाङ्गाः सतालकद्विचत्वारिंशन्निगडनियन्त्रिता उत्पाट्य प्राज्यकपाटसम्पुटयुक्तगृहान्तः क्षिप्ताः, एकैकेन वृत्तेनैकैकान्दुकतालकभञ्जनाङ्गीकारं कारिताश्च । मुक्ताःप्राहरिका बहिः । प्रभुभिर्भक्तामरेत्यादिस्तवं चक्रे। बन्धनानि तुत्रुटुः क्रमेण । एके वदन्ति द्विचत्वारिंशता वृत्तेनैकेन निगडाः पेतुः, तालकभङ्गोऽजनिष्ट, कपाटसम्पुटः स्वयमेवोदघटिष्ट, प्राहरिकैः सह बहिरागताः सूरयः, नमस्कृता भोजेन, सिंहासनमारोपिताश्च । अदमुयङभूद् भूपः, जैनदर्शनं सकलमिति मेने।।
।। इति स्तवमूलप्रबन्धः ।। १. अमुं अञ्चतीति अदमुयङ् एतत्पूजकः ।
ना १०९ |